________________
ज्ञानसारे जाऽष्टकम्
.३०७
द्रव्यपूजेत्यादि । भेदोपासना-भेदेन पूज्येऽहंदादी स्वस्मायो मेदस्तेन, लक्षणया मेहबुद्धयेत्यर्थः । योपासनाऽऽराधना, तद्रूपेत्यर्थः । द्रव्यपूजा-द्रव्यै गन्धवस्त्रादिभिः कृत्वा पूजा सा, गृह. मेधिनाम्-गृहा दागस्तै मेंवन्ते सङ्गच्छन्त इत्येवंशीला गृहभेधिनो गृहस्था देश विस्ताद्याम्लेषाम् , तेषामेव पूज्ये मेदबुद्धिसम्भवादिति ध्येयम् , उचिना-योग्या, भेदबुद्धिशालिन आत्मधर्मभिन्न पदाथैः यूना भेदसाधम्याद्योन्येत्याशयः। यद्यपि मानसी भावपून गृह. मेधिनामपि, अत एव द्रव्यपूजवेत्येवकारो नोपात्तस्तथापि काबिंकी भावपूजा न गृहमेधिनां सम्भवतीति ध्येयम् । तु में दे । तदाहभावपूजेत्यादि । अभेदोपासनामिका-अभेदेन पूज्ये स्वाऽभेदबुध्या योपासना तदारिमका तद्रूगा, भावपूजा-भाच आत्मधर्मस्तेन कृत्वा पूनोक्तपकारा, माधूनाम्-उचितेति सम्बध्यते । अभेद. बुदेस्तेषामेव सम्भवायव्य सङ्ग्रहाऽयोगादिति बोध्यम् ॥ ८ ॥ इति ज्ञानसारे प्रख्यातव्याख्यातृकविरत्नपन्यासप्रवर श्रीयशोभद्रविजयगणिवरशिष्यपन्यास श्रीशुभकरविजयगणिविरचितायां भद्रकरोदयाख्यायां व्याख्यायां पूजाइष्टकं नामैकोन
त्रिंशत्तममष्टकम् ॥ २५ ॥