________________
३०६
भद्रकरोदयाख्यव्याख्याविभूषित
अत एव उल्लसन्मनसः - उल्लसत् भावपूजायां सहर्षोत्साहं गच्छत् मनो यस्य तस्य तादृशस्य, सहर्ष सोत्साहं च भावपूजाप्रवृत्तस्व, तव - भावपूजाया विधातु में शिष्यस्य, उपलक्षणत्वादन्यस्य च तादृशस्य जनस्य भव्यस्य, सत्यघण्टाम् - सत्यं वस्तुनो यथार्थ स्वरूपं सत्यवचः प्रतिपाद्यं तदेव वादनसाधर्म्याद् प्रबोधोपयोगित्वाच घण्टा प्रसिद्धा ताम्, वादयतः - ध्वनयतः, सत्यमेव वदतः सत इति यावत् । करक्रोडे - करस्य हस्तस्य क्रोडे मध्ये, हस्तस्थवसुलभ इत्यर्थः । महोदय:- महान् सर्वोत्कृष्ट उदय आत्मौनत्यं यत्र स तादृशः, मोक्ष इत्यर्थः । अथवा मोक्षप्राप्त्यात्मिका महती उन्नतिस्ते करस्थेत्यर्थः । यथा घण्टावादनं विना न पूजासाकल्यम्, तथा सत्यं विना न भावपूजेति भक्त्याथात्मक चन्दनादिनिवेदनादारम्यैव सत्याश्रयणं वादयत इति वर्तमानकृदन्तेन सूच्यते । स एवैष नियागो ज्ञानयज्ञो ब्रह्मयज्ञो वा मोक्षसाधक इति तात्पर्यम् ॥ ७ ॥
अथ शिष्यप्रबोधार्थ द्विविधपूजाया अधिकारिणं निरुपयन्नुपसंदरति
-
द्रव्यपूजोचिता मेदोपासना गृहमेधिनाम् । भावपूजा तु साधूनामभेदोपासनात्मिका ॥ ८ ॥
..इति महामहोपाध्याय श्री यशोविजयोपाध्यायविरचिते ज्ञानसारे पूजाऽष्टकं नामैकोनत्रिंशत्तममष्टकम् ॥ २९ ॥