SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे पूजाऽष्टकम् ३०५ स्फुरदित्यादि । पुर:- अग्रे, आत्मदेवस्येति प्रस्तावाल्लभ्यते । अनुभवम् - अनुभवाऽष्टकोक्तप्रकारेण वस्तुयथार्थ स्वरूपावगमपरमावविरमण तदास्वादनैकत्वात्मकोऽनुभवः, केवलज्ञानद्वारा निश्वयेनाऽऽत्मप्रकाशकत्वाचद्रूपमित्यर्थः । स्फुरन्मङ्गलदीपम् - स्फुरन् प्रकाशमानो मङ्गलार्थो दीपो मङ्गलदीपस्तम्, स्थापय - निधेहि, चः समुच्चये । देवस्य पुरतो हि मङ्गलदीपः स्थाप्यते इति बोध्यम् । तथा - योगनृत्य परः - योगः संयमयोगः स एवाऽऽनन्दमयात्म साक्षात्कारप्रयोजकत्वाद् विविधदैहिकाऽत्मिक क्रियात्मकत्वाच्च नृत्यं तत्परः सन्, तौर्यत्रि कसंयमवान् - गीतं नृत्यं वाद्यं चेतित्रयं तौर्यत्रिकम्, "तौर्यत्रिकं नृत्यगीतवाद्यमि "त्यमरः । एकत्र धारणाध्यानसमाधिश्व संयमः । " त्रयमेकत्र संयम " इत्युक्तेः । तोर्यत्रिकमेव सङ्ख्यासाम्यात्संयमस्तद्वान्, आत्मविषय कधारणाध्यानसमाधिमा नित्यर्थः । मत्र - एघि | भावपूजायामनुभवो मङ्गलदीपो योगो नृत्यं संयमश्व तौर्यत्रिकमिति भावः । रूपकालङ्कारः ॥ ६ ॥ सम्प्रति घण्टावादनेन पूजां समापयन् शिष्यहृदयावर्जनाय फलमाह उल्लसन्मनसः सत्यघण्टां वादयतस्तत्र । भावपूजारतस्येत्थं करक्रोडे महोदयः ॥ ७ ॥ उल्लसदित्यादि । वरसेति सम्बोधनमर्थाल्लभ्यम् । इत्थम् - उक्तप्रकारेण, भावपूजारतस्य भाव आत्मस्वभावस्तद्रूपया सामग्र्या दगादिरूपया कृत्वा या पूजाऽऽत्मदेवसपर्या तत्र रतस्य तत्परस्य, २०
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy