________________
भद्रङ्करो दयाख्यव्याख्याविभूषिते
सरागावस्थाभाविनां पुत्रकलत्रादि ममत्वाद्यात्मकानां क्षायोपशमिकानां च क्षमादीनामष्टमगुणस्थानके द्वितीयाऽपूर्वकरणे क्षायिभावप्रात्या संन्यासस्त्यागः । यदुक्तं प्राक् - " धर्मास्त्याज्याः सुसङ्गोत्थाः क्षायोपशमिका अपि । प्राप्य चन्दनगन्धाभं धर्मसंन्यासमुत्तममि " - ति । स एव सरागावस्थाभावि धर्मदाहकत्वाद्वह्निस्तेन कृत्वा, धर्मलवणोत्तरम् - धर्मा ममत्वादयः क्षमादयश्च तान्, लवणोचारं लवणस्योत्तारणमुत्तारः, माङ्गलिकविधौ पूजादौ च लवणं करे कृत्वा मस्तकं परितो भ्रमयित्वा वह्नौ क्षिपन्तीत्याचारो लवणोचार इति प्रसिद्धः, लक्षणया लवणोत्तारस्थानीय मित्यर्थः । यद्वा धर्मा एव त्याज्यवसाधर्म्यालवणं तस्योत्तारं यथाविधि त्यागमित्यर्थः । प्राग्धर्मलवणो. चारमित्येकपदपरतयाऽपि व्याख्यानम् । अत्र च पक्षे प्राञ्चः सरागास्वाभाविनो ये धर्मा इत्येवं व्याख्यातव्यम् । कुर्वन्- विदधत्, आत्मदेवस्येति प्रस्तावाल्लभ्यते । उक्तलवणोत्तारपूर्वक मित्यर्थः । सामर्थ्य राजन्नीराजनाविधिम् - सामर्थ्यं सामर्थ्ययोगः क्षपकश्रेणिमारूढस्य प्रान्ते प्राप्यः परिणाम विशेषोऽनुभावाऽष्ट कोक्काऽनुभव - साधनस्तेन कृत्वा राजन् दीप्यमानो यो नीराजनायाः कर्पूरदीपा - दिभिः सत्करणरूपाऽऽरात्रिकस्य विधिस्तम्, पूरय - कुरु । आत्मदेवस्य द्वितीयाऽपूर्वकरणजन्यधर्मसंन्यासो लवणोत्तारपूजा, सामर्थ्ययोगो नीराजनाविधिः, सर्वमेतच्च नियागाङ्गमिति तात्पर्यम् ॥ ५ ॥ अथ पूजाङ्गतया दीपादिदानमप्याह
३०४
स्फुरन्मङ्गलदीपं च स्थापयाऽनुभवं पुरः । योगनृत्य परस्तौर्यत्रिक संयमवान् भव ॥ ६ ॥