SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे पूजाऽष्टकम् ३०३ मूतानि या भिदाः प्रकारा जातिकुलबलश्रुततपोवाल्लभ्य लाभास्तेषां त्यागाः परिहाराः, जात्यादिमदत्यागा इति यावत् । तैः कृत्वा, अग्रे-आत्मानमभिलक्ष्य, अष्टमङ्गलम् - अष्टानामष्टसख्याकानां मङ्गलानां स्थापनामङ्गलानां स्वस्तिकादीनां समाहारोऽष्टमङ्गलम्, अष्टमङ्गलेति प्रसिद्धमा लेपनमित्यर्थः । पात्रादेराकृतिगणत्वात्पश्ञ्चपात्रादिवत्स्त्रीत्वाऽभावः । अष्टमङ्गली मितिपाठस्त्वपपाठः । तत्र तत्र क्लीनस्यैव तस्य शिष्टानां व्यवहारविषयत्वात् । तीरभुक्यादिदेशविशेषे विवाहपद्धत्यादौ अष्टमङ्गलपदस्यैव प्रयोगदर्शनाच्चेति बोध्यम् । लिख-रचय, अष्टमदत्यागो ह्यष्टमङ्गलरचना, तेनाऽऽत्मनो मङ्गलगुणाविर्भावादित्याशयः । ज्ञानाग्नौ - ज्ञानयेव सङ्कल्पदाहकत्वादग्निस्तस्मिन्, शुभसङ्कल्पकाकतुण्डम् - शुभः शुभगुणविषयत्वात्प्रशस्यो यः सङ्कल्पो मनोरथः स एव शुभात्मक सौरभाऽनुगतत्वात्काकतुण्डं कालागुरुस्तत्, घूग्य-दह, निर्विकल्पक समाधिलाभो यथास्यादितिभावः । मदं त्यक्त्वा ज्ञानेन सङ्कल्पमात्रं निरुणद्धि, ततश्चाऽऽत्मदेवस्य साक्षात्काररूपः प्रसादः प्राप्तो भवेदिति मदत्यागः सङ्कल्पनिरोधश्च नियाग इति हृदयम् ॥ ४ ॥ अथ शिष्यजिज्ञासा निवृत्तये नीराजनाद्युपचारमप्याहप्राग्धर्मलचणोत्तारं धर्मसंन्यासवह्निना । कुर्वन् पूरय सामर्थ्य राजन्नीराजनाविंधिम् ॥ ५ ॥ प्रागित्यादि । प्राक् - आदौ, नीराजनाविधेः पूर्वमित्यर्थः । द्रव्यपूजायां तथैवाऽऽचारादिति बोध्यम् । धर्मसंन्यासबह्निना-धर्माणां
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy