________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते दिनिवेदनमप्याह
क्षमापुष्पस्रजं धर्मयुग्मक्षौमद्वयं तथा । ध्यानाऽऽभरणसारं च तदङ्ग विनिवेशय ॥३॥
क्षमेत्यादि । तदङ्गे-तस्य देवस्य शुद्धस्याऽऽत्मनोऽङ्गे प्रदेशेषु, मात्मनीत्यर्थः । अङ्गोक्तिः पुष्पस्रजाद्यर्पणनिर्वाहायेति ध्येयम् । क्षमापुष्पस्रजम्-क्षमा शक्तावप्यपराधसहनमक्रोधो वा सेवाऽऽत्मनः शोभाधायकत्वाद् गुणपरिमलविस्तारकस्वाच्च पुष्पैः कृता सक् माला ताम् , तथा, धर्मयुग्मक्षौमद्वयम्-धर्मयोरैहलौकिकपारलौकिकयो व्यावहारिकपारमार्थिकयो युग्मं द्वयं तेनैवाऽऽत्मनः सर्वथा वेष्टनीयत्वात्तदेव क्षौमयोः क्षुमाया विकारयोः क्षुमानिर्मितयोदुकूलयो यं तत्, ध्यानाभरणसारम्-ध्यानं धर्मशुक्लरूपं तदेव दुष्प्राप्यत्वान्महाय॑त्वादाभरणानां स्वर्णमणिरत्नाधलङ्काराणां सारं प्रधानं तत्, च: समुच्चये, विनिवेशय-समर्पय । पूजायां पूज्यस्याओं पुष्पस्रग्वस्त्रालङ्काराः समय॑न्ते, तथात्मनि क्षमाधर्मध्याननिवेशो भावपूजाऽऽत्मनो देवस्य । क्षमा धर्मरति ानमग्नता च नियाग इति हृदयम् ॥ ३ ॥
शिष्यप्रबोधार्थमुपचारान्तरेणाऽपि पूजामाहमदस्थानभिदात्यागै लिखाऽग्रे चाऽष्टमङ्गलम् । ज्ञानाग्नौ शुभसङ्कल्पकाकतुण्डं च धूपय ॥ ४ ॥
मदस्थानेत्यादि । चः पुनरर्थे, आभरणादिनिवेदनानन्तरमित्यर्थः । मदस्थानभिदात्यागैः-मदो गर्वस्तस्य स्थानान्याश्रय