SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ जानसारे पूजाऽष्टकम् वृत्ति यस्य स तादृशः सन् । स्नात्वा वस्त्रे परिधाय तिलकं कृत्वा बहिःशुद्धः शुभाशयोऽन्तःशुद्धश्च पूजयतीति सदयस्य सन्तुष्टस्य विवेकिनो भावितात्मनः पूजायोग्यता सूचिता । तदेवं पूजायोग्यतायोगात्पूजामाह-भक्तित्यादिना । भक्तिश्रद्धानघुसृणोन्मिश्रपाटीरजद्रवः-मक्तिरयमेवाराध्य इत्यनुरागात्मकाराध्यैकचित्तता तन्मिश्र श्रद्धानमाराध्यविषयाऽऽस्तिक्यरुचिस्तदेव घुसृणं कुङ्कुमं तेनोन्मिश्रा उत्कटतया संस्कृताः पाटीरान्मलयजचन्दनाजाता इति ते तादृशाः पाटीरजद्रवाःपाः, घृष्टश्रीखण्डपङ्कास्तैः कृत्वा, भक्ते घुसृणस्य च रागात्मकत्वाद्रूपणम् , श्रद्धानं च पाटीरजद्रव इव कर्मधर्मतापहरणसाधनं ज्ञानादिगुणसौरभप्रदं चेति रूपणं बोध्यम् । नव. ब्रह्माङ्गत:-नव नवसङ्ख्याकानि यानि ब्रह्मणो ब्रह्मचर्यस्योपलक्षणत्वात्तगुप्तेरङ्गानि भेदा एवाङ्गानि तदपक्ष्येति यब्लोपे पञ्चम्यन्ताचसिः । ततो हेतोर्वा, शुद्धम्-निर्मलमविकलाङ्गं च, विकलाङ्गस्य पूजानिषेधादिति बोध्यम् । अनतिचरितब्रह्मचर्योज्वलं सम्पूर्ण चेत्यर्थः । न विना ब्रह्मचर्यमात्मशुद्धिः प्रत्युत विकलाङ्ग एवाऽऽत्मेति भावः । अत एव, देवम्-दिव्यगुणसमग्रत्वात्कान्तिमन्तम् , आत्मा. नम्-चिदानन्दात्मकमात्मानम् , अर्चय-पूजय । आराधयेत्यर्थः । कुङ्कुमसंस्कृत चन्दनेन शुभाङ्गं भास्वजिनबिम्बादिकं हि जना पूजयन्तीति भावः । एवं हि पूजा भावपूजा भवतीति हृदयम् । दयार्द्रता सन्तोषिता विवेकिता भावशुद्धिर्भक्तिः श्रद्धा ब्रह्मचर्य च नियागप्रतिपत्तिरिति गूढाकूतम् ॥ १ ॥ २॥ न केवलमनुलेपनेन पूजासम्पत्तिरिति शिष्यशङ्कामनुमाय पुष्पा.
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy