SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३०० भद्रङ्करोदयाख्यव्याख्याविभूषिते भक्तिश्रद्धानघुसृणोन्मिश्रपाटीरजद्रवैः। नवब्रह्माङ्गतो देवं शुद्धमात्मानमर्चय ॥२॥ दयाम्भसेत्यादि । वत्सेति सम्बोधनं प्रस्तावाल्लभ्यते । एव. मनिमश्लोकेष्वपि बोध्यम् । दयाम्भसा-दया परदुःखप्रहाणेच्छा. रूपा करुणा सैव शरीरमलस्य जलमिवाऽऽत्ममलस्य कषायादेः शोधकत्वादम्भो जलं तेन कृत्वा, कृतस्नान:-कृतं विहितं स्नानमात्मशरीरमलकषायादिप्रक्षालनं येन स तादृशः सन् । यथा जलेन शरीरस्य मलापगम आर्द्रता च तथा करुणया निवृत्तकषायः स्निग्धश्च सन्नित्यर्थः। स्नातस्याऽवश्यं वस्त्रपरिधानमित्याह-सन्तोषे. त्यादि । सन्तोषशुभवस्त्रभृत्-सन्तोषोऽधिकाऽभिलाषेणाऽव्यग्रता लब्धमात्रेण मनःप्रसादश्च स एव शुद्धत्वाच्छुभत्वान्मनश्वाञ्च. ल्याऽऽच्छादकत्वाच्च शरीराच्छादनं शुभमनुपहतं शुक्लं क्षौमादिवखं वासस्तद्विभर्तीति स तादृशः सन् । यथा वस्त्रं शरीराच्छादनं मर्यादारक्षणसाधनं च तथा सन्तोषोऽपि मनोवृत्ती मर्यादीकरोति लोभादिनिराकरणेन मनस आवरणं च करोतीति भावः । वस्त्रपरि. धानानन्तरं तिलकमाह-विवेकेत्यादि । विवेकतिलकभ्राजीविवेक आत्मानात्मभेदग्रहो विवेकाऽष्टकोक्तः स एवाऽऽत्मगुणेषु मूर्धन्यत्वाल्लल्लाटपट्टपुण्डूं तेन भाजते दीप्यत इति तादृशः सन् । ललाटे तिलकेन हि वपुः शोभते, तथाऽऽत्मा विवेकनैव शोभते इति भावः। अथाशयशुद्धिमाह-भावनेत्यादि । भावनापाबनाशय:-भावना शुभमनोवृत्ति विधेये प्रमादो मा भूदिति तदेकचित्तता च तया कृत्वा पावनो निष्कलुष उदात्तश्चाऽऽशयश्चित्त
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy