SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे पूजाऽष्टकम् ब्रह्मयज्ञस्तस्य या प्रतिपत्तिः स्वीकृतिस्तद्वान्, ब्रह्मयज्ञपरायण इत्यर्थः । ब्राह्मणः - रूढ्या द्विजः, ब्रह्म जानातीति ब्राह्मण इति योगार्थालम्बनेन मुमुक्षवः श्रमण भिक्षु निर्ब्रन्थाः, अधै: - पापकर्मभिः सह, " पापं किल्विषकल्मषम् । कलुषं वृजिनैनोऽघमंदोदुरितदुकृतमित्यमरः । न-नैव, लिप्यते - श्लिष्यते । अत्र नियागप्रति - पत्तिमानेव ब्रह्मणो न तु सावद्यकर्मपरायण इति भङ्ग्या सूच्यते । यो हि शास्त्राण्यधीत्य मुमुक्षुर्ज्ञानेन ब्रह्माधीनीकृतात्मा ध्यानादिना निर्जीर्णकर्मा ब्रह्मचारी समाधिस्थो भवति स ब्रह्मयज्ञसमग्रत्वान्न कर्म वघ्नातीति मुच्यते इति ब्रह्मयज्ञ एवोपादेयः, कर्मयज्ञोऽप्युक्तप्रकारेण ब्रह्मयज्ञात्मक एवोपादेयः । अन्यः सर्वो हेय एवेति हृदयम् ॥ ७ ॥ ८ ॥ इति ज्ञानसारे प्रख्यातव्याख्यातृकविरत्नपन्यास प्रवरश्रीयशोभद्रविजयगणिवर शिष्यपन्यास श्री शुभङ्कर विजय गणिविरचितायां भद्रकरोदयाख्यायां व्याख्यायां नियागाऽष्टकं नामाष्टाविंशतितममष्टकम् ॥ २८ ॥ E २९९ ॥ पूजाऽष्टकम् ॥ यदुक्तं ' नियागप्रतिपत्तिमानि 'ति । तत्र नियागः पूजाध्यानतपोरूप इत्यादौ शिष्यप्रबोधार्थं पूजाऽष्टकं विवक्षुर्मुनीनां भावपू वोचितेति तत्प्रकार माह युग्मेन दयाऽम्भसा कृतस्नानः सन्तोष शुभवस्त्रभृत् । विवेक तिलकभ्राजी भावनापावनाशयः ॥ १ ॥
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy