________________
२९८
भद्रकरोदयाख्यव्याख्याविभूषिते. बचीकृतं सर्वस्वं स्वकीयत्वेनोपलक्ष्यमाणं क्रियाज्ञानादिकं येन स वादृशः, यत्किमपि क्रियाज्ञानादिकं तत्सर्वं शुद्धचिदात्माऽऽत्मार्थमेवेत्येवं शुद्धचिदात्मैकतान इत्यर्थः । मुमुक्षु हि ज्ञानेन ब्रह्मार्थमेव किमपि करोतीति भावः । तदेवं ज्ञानोपयोगमुक्वा क्रियामाहब्रह्मणेत्यादि । ब्रह्मणि-सर्वज्ञानक्रियाऽऽधारभूते साधनत्वेन परिणते ज्ञानेन प्रदीप्ते निजात्मनि, अग्नाविवेति ध्वनिः । ब्रह्मणा-मात्मना, लक्षणयाऽऽत्मज्ञानेनाऽऽत्मवीर्येण च कृत्वा, ध्यानेन कृत्वा वा । तदुक्तं प्राक्-" ध्यानधाय्यये" ति ध्येयम् । अब्रह्म-न ब्रह्म सम्यग्ज्ञानं ब्रह्मचर्य च, उपलक्षणत्वाकामनामात्रम् , तथा ब्रह्म आत्मा तद्भिन्नं पौद्गलिकं कर्म, अज्ञानं कामना कर्माणि च, जुह्वत्आहुतीकुर्वन् , नाशयन्नित्यर्थः । तथा चोक्तं प्राक्-" ब्रह्माग्नौ कर्मणो युक्तमि"त्यादि, " पापध्वंसिनी"त्यादि चेति ध्येयम् । अत एव, ब्रह्मगुप्तिमान्-ब्रह्मणो ब्रह्मचर्यस्य या गुप्ति नवधाशील. रक्षणं तद्वान् , दृढस्थिरब्रह्मचारीत्यर्थः । अथ ध्यानमाह-ब्रह्माध्ययनेत्यादिना। ब्रह्माध्ययननिष्ठावान्-ब्रह्मण आत्मनः, तत्स्वरूपस्य तत्साधकाऽनुष्ठानस्य च प्रतिपादकत्वात्तत्सम्बन्धीनि यान्यध्ययनानि शाखाऽध्यायाः, तथाऽऽचाराङ्गस्य प्रथमश्रतस्कन्धस्य नवाऽध्यय. नानि, तेषु निष्ठा परिपूर्णता तद्वान् , अधीताऽध्यात्मशास्त्र इत्यर्थः । अत एव च परब्रह्मसमाहितः-परं शुद्धसच्चिदानन्दमयत्वात्सर्वो. स्कृष्ठं यद् ब्रह्म निरञ्जन आत्मा तस्मिन् समाहितो वृत्त्यन्तरनिरोधेन तदेकाग्रचित्तः, आत्मसमाधिस्थः सन्नित्यर्थः । उक्तै सबै विशेषणैः कृत्वा, नियागप्रतिपतिमान्-ज्ञानात्मकत्वानिश्चितो यागो नियागो