________________
शानसारे योगाऽष्टकम्
२९७
स्थायां कृतमपि कर्माऽऽत्मसाक्षात्कारायैव जायते इति कर्मणो ब्रह्मार्पणमित्युच्यते । एवं च स ब्रह्मार्थो यज्ञ इति कर्मयज्ञो ब्रमयज्ञ इत्युच्यते नाऽन्यथा । यदुक्तम्-" ब्रह्मार्पणं ब्रह्म हवि ब्रह्माग्नौ ब्रह्मगा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना" इति, " यस्य नाऽहङ्कतो भावो बुद्धिर्यस्य न लिप्यते । हत्वाऽपि स इमां ल्लोकान् न हन्ति न निबध्यते " इति च । एवञ्चाऽत्र ज्ञातात्मनः कर्मैव ब्रह्मयज्ञोऽन्यथा तु तयो भेद एवेति मुमुक्षुणा कर्मयज्ञः सर्वथा हेय एवेति हृदयम् ॥ ६ ॥
सम्प्रत्युपसंहरन् शिष्यहृदयावर्जनाय ब्रह्मयज्ञं विवृण्वन्नियाग. प्रतिपत्तिफलमाह युग्मेन
ब्रह्मण्यर्पितसर्वस्वो ब्रह्मदृग् ब्रह्मसाधनः । ब्रह्मणा जुह्वदब्रह्म ब्रह्मणि ब्रह्मगुप्तिमान् ॥ ७॥ ब्रह्माध्ययननिष्ठावान् परब्रह्मसमाहितः।
ब्राह्मणो लिप्यते नाऽधै नियागप्रतिपत्तिमान् ॥ ८॥ इति महामहोपाध्याय श्रीयशोविजयोपाध्यायविरचिते ज्ञानसारे
नियागाऽष्टकं नामाऽष्टाविंशतितममष्टकम् ॥ २८ ॥
ब्रह्मणीत्यादि । ब्रह्मदृक्-ब्रह्मणि शुद्धचिदात्मनि दृग्दृष्टि यस्य सः, आत्मलाभैकलक्ष्यः, मुमुक्षुरित्यर्थः । ब्रह्मसाधना-ब्रह्म शुद्धात्मा, उपलक्षणत्वातद्विषयकं ज्ञानम् , तत्त्वज्ञानमित्यर्थः । तदेव साधनं स्वेष्टमोक्षलाभोपायो न तु कर्म यस्य स ताहशः सन् , ज्ञानसाधन इत्यर्थः । ब्रह्मणि-शुद्धचिदात्मनि, अर्पितसर्वस्त्र:-अर्पितं तदेका