________________
२९६
भद्रकरोदयाख्यव्याख्याविभूषित
जमदग्न्यादिविहितपुत्रेष्ठादेर्महानर्थः शास्त्रेषु श्रूयते । तस्मान्न कर्म कथञ्चिदपि ब्रह्मयज्ञः । किञ्च गृहमेधिनोऽधिकृत्य फलविशेषोद्देशेन विहितः कर्मयज्ञो मुमुक्षुभि हेय एवेति ॥ ५ ॥ ___ ननु " मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसी "त्युक्तेः कर्मणो ब्रह्मार्पणं ब्रह्मयज्ञ इति शिष्यशङ्कायामाह
ब्रह्मार्पणमपि ब्रह्मयज्ञाऽन्तर्भावसाधनम् । ब्रह्माऽग्नौ कर्मणो युक्तं स्वकृतत्वस्मये हुते ॥ ६॥ ।
ब्रह्मार्पणमपीत्यादि । कर्मणः-स्वकृतकर्मणःकर्मयज्ञादिरूपस्या ब्रह्मार्पणम्-ब्रह्मणे शुद्धसच्चिदानन्दमयाऽऽत्मने परमेश्वरायाऽर्पणं निवेदनम् , यत्कृतं तद्ब्रह्मणे ब्रह्मणा न मदर्थ मयेत्येवमादिरूपेण स्वकृतकर्मणो ब्रह्मसात्करणम् , तदपि । अपिना नाऽन्यथा ब्रह्मयज्ञान्तर्भावः कर्मयज्ञस्येत्युक्तं सूच्यते । ब्रह्माऽग्नौ-ब्रह्म उक्तप्रकारः स एवाऽहङ्कारादिदाहसमर्थत्वादग्निस्तस्मिन् , स्वकृतत्वस्मयेस्वेन कृतं स्वकृतं तत्त्य भावस्तत्वं तदात्मको यः स्मयो मदः, कृते कर्मणि इदं मया कृतमित्येवं स्वकर्तृत्वाऽभिमान इत्यर्थः । तस्मिन् , हुते-विलोपिते सति, ब्रह्मयज्ञान्तर्भावसाधनम्-ब्रह्मयज्ञ उक्तप्रकारस्तत्र योऽन्तर्भावः कर्मयज्ञस्य ब्रह्मरूपताऽऽपादनं तस्य साधनमुपायः, युक्तम्-घटते, उचितमित्यर्थः । अयं मावः-कर्मयज्ञस्य ब्रह्मार्पणं तदा ब्रह्मयज्ञतासाधनं यदि निजात्मनि ब्रह्मैक्यभावनया कर्मणः स्वकर्तृत्वाऽभिमानो न जायते । आत्मसाक्षात्कारे हि तस्मिन् न कर्तृत्वबुद्धिरुदेति, आत्मनो निरञ्जनस्वादिति तदव