________________
शानसारे नियागाऽष्टकम्
शिष्यप्रबोधार्थ प्रागुक्तश्लोकद्वयार्थमेव विशदीकुर्वन्नाहभिन्नोद्देशेन विहितं कर्म कर्मक्षयाऽक्षमम् क्लप्तभिन्नाधिकारं च पुत्रेष्ट्यादिवदिष्यताम् ॥५॥
भिन्नोद्देशेनेत्यादि । भिन्नोद्देशेन-भिन्नः कर्मक्षयप्रस्तावाकर्मक्षयलक्षणमोक्षविलक्षणः स्वर्गादिरूप उद्देशः प्रवृत्तिप्रयोजन तेन हेतुना, मोक्षविलक्षणस्वर्गाद्यात्मककामनासिद्ध्यर्थमित्यर्थः । विहितम्-शास्त्रे विधेयत्वेन प्रतिपादितम् , क्लप्तभिन्नाधिकारम्क्लप्तो निश्चितो भिन्नो विविधोऽधिकारो योग्यता यस्य तत्तादृशम् , मुमुक्षुविधेयविधिविलक्षणप्रक्रियमित्यर्थः । चः-समुच्चये। "प्रक्रिया वधिकारोऽथे" ति हैमः । कर्म-कर्मयज्ञः, पुत्रष्ट्यादिवत्-पुत्रस्य तदर्थत्वात्तत्सम्बन्धिनी येष्टिर्यज्ञः, आदिनाऽग्निष्टोमश्येनयागादिः । यदुक्तम्-" पुढेष्या यजेत पुत्रकामः" इति, तद्वत्, पुढेष्यादियज्ञ इवेत्यर्थः । कर्मक्षयाऽक्षयम्-कर्मणः पुण्यपापात्मकस्य क्षये निर्जरणेऽक्षममसमर्थम् , इष्यताम्-मन्यताम् । अयं भावः-वेदे यज्ञः स्वर्गाद्युद्देशेन काम्याधिकारे विहितः, तथा वीतरागस्य पूजादि गृहिधर्माऽधिकारे विहितो न योगिधर्माधिकारे । एवञ्च यदुद्देशेन यदधिकारे च तत्कर्म विहितं तेनाऽधिकारिणैव विहितेन तेन तदु. देशस्यैव सिद्धि युज्यते । यदि हि तेनोक्ताऽधिकारानर्ह विहितेनोक्तविलक्षणोदेशसिद्धिरपि स्यात्तदोद्देशाऽधिकारविशेषप्रतिपादनं निष्प्रयोजनत्वाच्छास्त्रे न कुर्यादेव । तस्मान्निष्कामेन विहितः कर्मयज्ञः कर्मक्षयाऽक्षमत्वान्न ब्रह्मयज्ञः। यथा पुढेष्ट्यादिः पुत्रादिकामनात्यागेन विहितोऽपि न विविदिषाहेतुः, प्रत्युताऽधिकारविपर्ययेण