________________
भद्रकरोदयाख्यव्याख्याविभूषित सङ्गच्छते । किश्च फलत्यागे कर्मयज्ञो ब्रह्मयज्ञ इति सिद्धान्तोऽपि विरुध्यते इति शिष्यशहां समादधदाह
ब्रह्मयज्ञः परं कर्म गृहस्थस्याऽधिकारिणः। पूजादि वीतरागस्य ज्ञानमेव तु योगिनः ॥ ४ ॥
ब्रह्मयज्ञ इत्यादि । अधिकारिण:-न्यायोपार्जितवित्तादिम ज्वाद्वीतरागपूजाऽधिकारवतः, एतेनाऽन्यादृशोऽनषिकारिणो वीतसागपूजाधपि न ब्रह्मयज्ञ आत्मशुद्ध्यभावादिति ध्वन्यते । गृहस्थस्य-गृहमेधिनः, देशविरतस्य श्रावकादेरल्पशः सावधप्रवृत्तिमतः, वीतरागस्य-रागद्वेषरहितस्याऽर्हतः, पूजादि-स्नानीयमाधजलाऽनुलेपनपुष्पधूपदीपचेलाऽलङ्कारादिनिवेदनाद्यात्मिका क्रिया पूजेति प्रसिद्धा, आदिना बिम्वप्रतिष्ठादिकम् , तद्रूपमित्यर्थः । कर्म-कर्मणा साध्यः कर्मात्मको वा यज्ञः, कर्मयज्ञ इत्यर्थः । परम्केवलम् , ब्रह्मयज्ञ:-ब्रह्मसाधकमनःशुद्धिहेतुत्वेन ब्रह्मयज्ञात्मकः । ननु तर्हि योगिनः किमित्याकाङ्खायामाह-ज्ञानमित्यादि । तुभेदे । तमेवाह-योगिन:-सर्वसावधविरतस्य मुनेस्तु, ज्ञानम्-ज्ञानयज्ञ एव, ब्रह्मयज्ञ इति सम्बध्यते । जलपुष्पादिसाध्यपूजादेः सावद्यानुष्ठानरूपत्वाद् गृहस्थस्य च सावधप्रवृत्तेरशक्यपरिहारत्वात्पूजादि युज्यते, मनःशुद्ध्यादिफलत्वाच्च स ब्रह्मयज्ञः । योगिनस्तु सर्वसावद्यविरतत्वात्तन्न युज्यत इति तस्य ज्ञानयज्ञ एव ब्रह्मयज्ञ इत्याशयः । एवञ्च " कर्मणैव ही "त्यादी कर्मपदं स्वल्पसावद्यपूजादिकर्मपरं गृहस्थोचितमेव न मुनेरहतीति नाऽसङ्गति न वा विरोध इति सर्व समञ्जसमित्याकूतम् ॥ ४ ॥