SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे नियागाऽष्टकम् २९३ वेदोक्तत्वात्-वेदे उक्तत्वाद्विहितत्वाद्धेतोः, यद्धि वेदविहितं न तदोषायाऽपि तु मनःशुद्धय एवेत्यतो हेतोः, वेदस्य शुभोपदेश एक व्यापारोऽन्यथाऽपामाण्यापतेरिति बोध्यम् । मनःसुखा-मनसश्चित्तस्य, उपलक्षणत्वाच्चित्तवृत्तेः शुद्धिः शुभपरिणामस्तया कृत्वा, यद्वा वेदोक्तमित्ति विहितं करोमि नाऽविहितमिति मनःपरिणाम. शुद्ध्या कृत्वा, ब्रह्मयज्ञ:-ब्रह्म शुद्धचिदात्मा तत्पयोजको यज्ञः, आत्मसाधको ज्ञानात्मको यज्ञ एवेत्यर्थः । इति-एवम् , इच्छन्त:मन्यमानाः, यदुक्तम्- " योगिनः कर्म कुर्वन्ति सङ्गं त्यक्वाऽऽम. शुद्धये " इति, " त्यक्वा कर्म फलाऽऽसङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति स" इति, वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा" इति चेति बोध्यम् । श्येनयागम्-इयेनाख्यपक्षिविशेषहिंसासाध्यं यागं यज्ञं श्येन. यागेतिप्रसिद्धं वेदोक्तम् , यदुक्तम्-"श्येनेनाऽभिचरन् यजेते". ति । किम्-कुतो हेतोः, त्यजन्ति-वर्जयन्ति, न कुर्वन्तीत्यर्थः । काका तत्त्यागो न सङ्गच्छते इति ध्वन्यते। तस्याऽपि वेदोक्त्वा. न्मनःशुद्ध्या ब्रह्म यज्ञत्वस्य तत्राऽप्युक्तरीत्याऽवाधात्यागहेतोरभावादितिभावः । ततश्च यथा कर्मफलत्यागेनाऽपि श्येनयागे ब्रह्मयज्ञत्वं नेष्टम् , अत एव त्यजन्ति । तथा यागान्तरेऽपि फलत्यागेऽपि हिंसात्मकत्वान्न ब्रह्मयज्ञतेति कर्मयज्ञत्याग एवेष्ट इति सुष्ठूक्तम्-" सावधैः कर्मयज्ञैः किमि"त्यादीति भावः ॥ ३ ॥ ननु तर्हि " कर्मणैव हि संसिद्धिमास्थिता जनकादय" इति, "कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतमि"त्यादि चोक्तं न
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy