________________
१९२
भद्रङ्करोदयाख्यव्याख्याविभूषिते
"
कलुषैः, अविशुद्धैरित्यर्थः । " कलुषोऽनच्छ आविल " इत्यमरः । कर्मयज्ञे: - कर्म पशुबधादिका बाह्यक्रिया तया तदात्मका वा ये यज्ञास्तै वेदोक्त ज्योतिष्टोमादिभिः प्रसिद्वै यज्ञः, किम १ - न किमपीत्यर्थः । तादृशा यज्ञा हेया इति यावत् । अत्र कर्मयज्ञानां हाने विशेषणविधया सावद्यत्वमाविलत्वं च हेतुरुक्तः । तथा ज्ञानयज्ञस्योबादाने पापध्वंसित्वं निष्कामत्वं च हेतुर्विशेषणविधयोक्तः । पदसमुदायश्च वाक्यमिति वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारोऽत्र बोध्यः । कर्मनाशकत्वाद्विशुद्धत्वाश्च ज्ञानयज्ञ उपादेयः, सावद्यत्वादविशुद्धत्वाच्च कर्मयज्ञो हेय इति निष्कर्षः । यदुक्तम्- " श्रेयान् द्रव्यमयाद् यज्ञाद् ज्ञानयज्ञः परन्तप ! सर्व कर्माऽखिलं पार्थ ! ज्ञाने परिसमाप्यते " इति ॥ २ ॥
ननु ' युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीमि " - त्युक्तेः फलत्यागपूर्वको वेदोक्तत्वान्मनः शुद्धिहेतुश्च कर्मयज्ञोऽप्युपादेय एवेति शिष्यतर्क विजघटयिषुराह—
वेदोक्तत्वान्मनः शुद्ध्या कर्मयोऽपि योगिनः । ब्रह्मयज्ञ इतीच्छन्तः श्येनयागं त्यजन्ति किम् १ ॥ ३ ॥ वेदोक्तत्वादित्यादि । योगिनः - कर्मफलत्यागात्मक योगवतो ज्ञानिनः । यदुक्तम् - " सर्वकर्मफलत्यागं ततः कुरु यतात्मवानि"ति । तद्विधेयत्वात्तत्सम्बधीत्यर्थः । कर्मयज्ञः - पशुवधा द्यात्मकेन कर्मणा सम्पादनीयः क्रियात्मको वा यज्ञो देवप्रीत्यर्थविधिविशेषो यज्ञ इति प्रसिद्धोऽपि, अपिना न केवलं ज्ञान एवेति सूच्यते ।
।