SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ शानसारे नियागाऽष्टकम् नार्थान्तरं वेदोक्तप्रकारम् , किन्तु भावयज्ञ एव नियागः । तत्पतिप्रत्त्यैव मोक्षयोगः । स चाऽयोगयोगात्मकशैलेश्याख्यशुक्लध्यानेनैव साध्य इति सुष्ठूक्तम्-" अयोगयोगाप्ते मोक्षयोग" इति भावः । परम्परितरूपकालङ्कारः ॥ १ ॥ शिष्यप्रतिबोधायोक्तप्रकारस्य भावयज्ञस्यैवोपादेयत्वं नत्वन्यादृशस्य यज्ञस्येत्याह पापध्वंसिनि निष्कामे ज्ञानयज्ञे रतो भव । सावधैः कर्मयज्ञैः किं भूतिकामनयाऽऽविलैः ॥२॥ पापध्वंसिनीत्यादि । वत्सेति सम्बोधनं प्रस्तावाल्लभ्यते । फापमंसिनि-पापमशुभं कर्म, उपलक्षणस्वाकर्ममात्रम् , तद् ध्वंसयति नाशयतीत्येवंशीलस्तस्मिन् , कर्मनाशके इत्यर्थः । निरवध इति यावत् । निष्कामे-कामादिष्टार्थप्राप्तीच्छातो निर्गतो निष्कामः, कामनोच्छेदके कामनां विना साध्ये वेत्यर्थः । कामनारहितत्वाद्विशुद्ध इति हृदयम् । ज्ञानयज्ञे-ज्ञानेन ज्ञानात्मको वा यज्ञो देवप्रीत्यर्थो विधिविशेषः, प्रस्तुते तु कर्मनाशक आन्तरो ध्यानादिब्यापारात्मक उक्तपकारो भावयज्ञस्तत्रैव, एवाऽर्थोऽर्थालभ्यते । रत:-तत्परः, भव-एधि । अर्थाल्लब्धैवकारव्यवच्छेद्यमाह-साववैरित्यादि । सावधैः-अवद्यं पशुवधाद्यात्मकं पापं तेन सह वतन्त इति ते तादृशास्तैः, पापहेतुभिरित्यर्थः । तथा, भृतिकामनयाभूतिरैश्वर्यम् , तस्याः कामनया प्राप्तीच्छया, " भूतिकामः पशुमाबमेते"त्युक्तेरिति भावः। "विभूतिभूतिरैश्वर्य मि"त्यमर। आविलै:
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy