________________
२९०
भद्रङ्करोदयाख्यव्याख्याविभूषिते
॥ नियागाऽष्टकम् ॥ ननु भवता ' अयोगाप्ते मोक्षयोग' इत्युच्यते । अन्ये पुननियागप्रतिपत्त्या मोक्षमाहुरिति शिष्यशङ्कां समाधिमुर्नियागाऽष्टकं विवक्षुरादौ नियागभेव विवृण्वन्नाह
यः कर्म हुतवान् दीप्ते ब्रह्माग्नौ ध्यानधाय्यया। स निश्चितेन यागेन नियागप्रतिपत्तिमान् ॥१॥
य इत्यादि । य:-यादृश उक्तयोगसम्पन्नो मुनिः, दीप्लेउक्तयोगाराधनाद्विशुद्धत्वाकर्मदाहकतीव्रसामर्थ्य सम्पन्ने, अग्निपक्षे प्रज्वलिते, ब्रह्माग्नौ-ब्रह्म विशुद्धचैतन्यभाव आत्मैवोक्तयोगाभ्यासप्रादुर्भूतकर्मदाहशक्तेरग्निस्तस्मिन् , ध्यानधाय्यया-ध्यानं शैलेश्याख्यमयोगयोगात्मकं शुक्लध्यानं तद्रूपया धाय्यया धीयतेऽनया समिदग्नाविति धाय्या ऋक्, तया, ध्यानात्मकसमित्प्रक्षेपमन्त्रेणेत्यर्थः । कर्म-कर्मात्मिकां समिधम् , हुतवान्-प्रदिप्य दग्धवान्, ऋचा हि प्रदिप्तेऽग्नौ समिधं जुहोति, तथा ध्यानेन शुद्धात्मनि कर्म नाशयवि मुनिरित्याकूतम् । सः-ताहशो ध्यानेन ब्रह्मणि दग्धकर्मा मुनिरेव, निश्चितेन-निश्चयाऽभिमतेन, यागेनयज्ञेन, देवप्रीत्यर्थेन आहुतिक्रियाप्रधानेन विधिविशेषेण यज्ञ इति प्रतीतेन, निश्चयनयो हि भावमिच्छति न द्रव्यादिकं तस्य व्यवहारविषयत्वादिति भावयज्ञसम्पन्नत्वेन हेतुनेत्यर्थः । “ यज्ञः सवोऽध्वरो याग" इत्यमरः । नियागप्रतिपत्तिमान-निश्चितो यागो नियागस्तस्य या प्रतिपत्तिः स्वीकारः, प्राप्तिरित्यर्थः । तद्वान् । नियागो