________________
ज्ञानसारे अनुभवाऽष्टकम्
न योगोऽयोगो योगाभावः सोऽस्त्यस्येति स तस्य स्थानादियोगाराधनविमुखस्य शेषे षष्ठी । तोर्थोच्छेदाद्यालम्बनात् - तीर्थोच्छेदोयद्यस्मै योगरहितायाऽपि सूत्रं नोपदिशामि तदा तीर्थस्य प्रवचनस्योच्छेदो भङ्गो योगिनः प्रवचनज्ञस्याऽभावात्स्यादित्येवं तीर्थो च्छेदः, आदिना गुरुभक्त्यादिरालम्बनमविधिना सूत्रदाननिमित्तं ततो हेतोरपि, सूत्रदाने - श्रुतोपदेशे, महादोषः - महानक्षम्यो दोषोऽपराधः, अपिना यत्र तीर्थोच्छेद निवारणार्थमपि योगरहितस्य सूत्रदाने महादोषस्तत्र ततोऽल्पकारणेन सूत्रदाने महादोष इति किमु वक्तव्यमिति सूच्यते । योगरहितस्य हि सूत्रदानेऽनधिकारिणा तेनाऽशुद्धक्रियापरम्पराप्रवृत्तेः परमार्थतः शुद्धक्रियोच्छेदातीर्थो - च्छेदनिमित्ततैवोपदेष्टुरित्यतो महादोष इति बोध्यम् । नन्वेतद्योगपक्षपातिनो भवतः स्वमनीषिकेति चेन्न, तदाह- इतीत्यादि । इति - अयोगिनः सूत्रदाने महादोष इत्येवम्, आचार्या :- योगशास्त्रोपदेष्टारो मुनयः प्रचक्षते - प्रकर्षेण साग्रहमाख्यान्ति । एवं च श्रुताधिकारी यथा स्यामित्यवश्यं योगोऽभ्यसनीयो मुमुक्षुणेति तात्पर्यम् ॥ ८ ॥
I
२८९
इति ज्ञानसारे प्रख्यातव्याख्यातृ कविरत्नपन्यास प्रवरश्रीयशोभद्र विजयजीगणिवर शिष्य पन्यास श्री शुभङ्कर विजय गणिविरचितायां भद्रकरोदयाख्यायां व्याख्यायां योगाऽष्टकं नाम सप्तविंशतितममष्टकम् ॥ २७ ॥
१९
·