________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
रित्यादिना । स्थानवर्णयोः-स्थानमुक्तप्रकारः स्थानयोगो विहिताऽऽसनमुद्रादिः, वर्णो वर्णयोग उक्तप्रकारः सूत्रस्तवाद्यक्षरम् , तयोः, चः समुच्चये । यत्नः-यथा तो योगी शुद्धो स्यातां तथा सोपयोगः प्रयत्न एव, एवकारेण तयोर्बाह्य क्रियारूपत्वाद्विभावनव्यवच्छेदः । योगिनः श्रेयसे इति सम्बध्यते । चैत्यवन्दनादौ स्थानवर्णयोयनोऽ.
लम्बनयोर्विभावनं च योगिनः श्रेयसे इत्यतस्तादृशविधौ स्थानादियोगोऽवश्यं सप्रयत्नमनुष्ठेयोऽन्यत्र तदनुष्ठानेऽपि श्रेयः सिद्ध्य. सम्भवादिति निष्कर्षः । चैत्यवन्दनादौ तै यो गैरकाय्याख्यपञ्चमयोगसिद्ध्या साक्षादेव श्रेयःप्राप्तिरिति हृदयम् । तदुक्तम्-"तहृद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिषूतकल्मषा " इति ॥ ५ ॥
शिष्यप्रबोधार्थमालम्बनविषये विशेषमाहआलम्बनमिह ज्ञेयं द्विविधं रूप्यरूपि च । अरूपि गुणसायुज्यं योगोऽनालम्बनः परः ॥ ६ ॥
आलम्बनमित्यादि । इह-योगप्रकरणेऽस्मिन् , आलम्बनम्यदालम्ब्याऽऽलम्बनयोगप्रवृत्तिस्तद् दृश्यं ध्येयं च लक्ष्यम् , द्विविधम्-द्विप्रकारम् , ज्ञेयम्-बोध्यम्, किन्तदित्याकाङ्क्षायामाहरूपीत्यादि । रूपि-रूपवत्, मूर्तमित्यर्थः । अरूपि-अमूर्तम्, चः समुच्चये । तत्र रूप्यईत्प्रतिमादिकं प्रतीतमित्यरूपि निरूपय. माह-अरूपीत्यादि । गुणसायुज्यम्-गुण रूप्यालम्वनगुण ानादिभिः सायुज्यं सहयुज्यते समाधत्ते इति सयुक्तस्य भावः सायुज्यं