________________
जानसारे बोगाऽष्टकम्
२८५
स्थैर्यम्-स्थर्ययोगः, निशङ्कं योगसाधनं स्थिरतायोग इति निष्कर्षः। बदा सदभ्यासादिना योगः स्वभावभूतो भवति तदा योगमयत्वा. दात्मनो न बाधकशकोत्पद्यते, तस्माद्वहिरन्तश्च स्थिरता जायते, स स्थिरतायोग इति बोध्यम् । अन्यार्थसाधनम्-अन्येषां स्वभिन्नानां प्राणिनां येऽर्था निर्वैरत्वादयस्तेषांसाधनं सम्पादनम् , स्वसानिध्यादिमात्रेण परेषामपि शुद्धभावप्रापणमित्यर्थः । सिद्भिः-सिद्धियोगः, यदाऽभ्यासादिना योगःसिद्ध्यति तदा तादृशयोगिसान्निध्यादिना परेऽपि शुद्धभावं गच्छन्ति, यथा योगिनःसन्निधौ सहजवैरिणामपि वैरत्यागेनाऽवस्थानं मिथ्यामतेरपि सम्यक्त्वप्रतिपत्तिरित्यादि । स एष सिद्धियोगः, परेषामपि सिद्धिसाधकत्वादित्याशयः ॥ ४ ॥
क्व को योगो भावनीय इति शिष्यजिज्ञासायामाहअर्थालम्बनयोश्चैत्यवन्दनादौ विभावनम् । श्रेयसे योगिनः स्थानवर्णयो यत्न एव च ॥५॥
अर्थालम्बनयोरित्यादि । चैत्यवन्दनादौ-चैत्यं जिनप्रासादः, तात्स्थ्यात्ताच्छब्द्यमिति चैत्य प्रतिष्ठापितानि जिनबिम्बानि तेषां वन्दनम् , आदिना शेषावश्यक क्रिया, तस्मिन् तदधिकारे, अर्थालम्बनयो:-अर्थः पठ्यमानसूत्रादिवाच्य आलम्बनं ध्येयोऽईहादिस्तयोरुक्तप्रकारयोरालम्बनयोरित्यर्थः । विमावनम्-विशेषेण स्थिरमनसा भावनमनुचिन्तनम्, योगिनः-स्थानादियोगसमप्रत्यमुनेः, श्रेयसे-कल्याणाय, मोक्षायेत्यर्थः । सम्पद्यत इति शेषः । नुस्थानवर्णयोःकिमिति शिष्यजिज्ञासानिवृत्तये आह-स्थानवर्णयो