________________
२८४
भद्रङ्करोदयाख्यव्याख्याविभूषिते
योगस्येच्छादिकान् प्रकारान् शिष्यजिज्ञासानिवृत्तये निरूपयन्नाह
इच्छा तद्वत्कथाप्रीतिः प्रवृत्तिः पालनं परम् । स्थैर्य बाधकभीहानिः सिद्धिरन्यार्थसाधनम् ।। ४ ॥
इच्छेत्यादि । तद्वत्कथाप्रीतिः-स पूर्वोकप्रकारः स्थानादियोगोऽस्त्येषामिति तद्वन्तो योगिनस्तेषां तद्गुणानधिकृत्यप्रवृत्तत्वात्तत्सम्बन्धिनी या कथा वार्ता प्रवचनादिरूपा, तत्र प्रीतिरनुरागः। तच्छ्रवणोत्कण्ठा, तच्छ्रवणे उद्वेगरहितचित्ताभिनिवेशः, तच्छ्रवणेन चित्तप्रसादानुभवश्च । प्रीतेषेषोऽनुभाव इति बोध्यम् । इच्छापदसमुदाये सत्या भामेतिवत्पदैकदेशप्रयोगादिच्छायोग इत्यर्थः । उच्यते इति शेषः । एवमग्रेऽपि बोध्यम् । यः स्वयमनुष्ठातुमशक्तोऽपि योगिकथासु प्रीणाति स इच्छायोगवानिति तात्पर्यम् । यत्र नेच्छा तत्र न तद्वत्कथाप्रीतिरिच्छायोग इति हृदयम् । परम्-अत्यर्थम् , अनवरतमित्यर्थः । प्रमादादि मा जनिष्टेतिशङ्कया. ऽऽलस्यपरित्यागेन सातिशयप्रयत्नपूर्वकमिति यावत् । पालनम्सेवनम् , प्रकरणात्स्थनादियोगस्येति लभ्यते । प्रवृत्ति:-प्रवृत्ति योगः । योगसाधनप्रवृत्तिरूपत्वादेष प्रवृत्तियोग इष्यते इति तात्पर्यम् । राधकभीहानि:-बाधका योगप्रतिरोधका ये कुमत्यतीचारादयो दोषास्तेभ्यो या भी ोगप्रतिरोधभयं तस्या हानिस्त्यागः, योगस्य सदभ्यासादिना तादात्म्यापन्नत्वात्स्वाभाविकत्वादतीचारादिशङ्काया अनवसरादिति बोध्यम् । योगसाधने दृढस्थिरवृत्तितेति यावत् ।