________________
शानसारे योगाऽष्टकम्
२८३ भवतीति शेषः । विरता युक्तयोगसम्पन्ना भवन्त्येव, अन्यथा विरते दुराराध्यत्वादित्याशयः । परेषु-विरतभिन्नेषु अविरतसम्यग्दृष्टि. मार्गानुसारिप्रभृतिषु, अपिना विरतसमुच्चयः । बीजमात्रम्-बीजं हेतुरेव बीजमात्रम् , यथा तादृशयोगोत्पत्तिः कदाचित्सम्भाव्यते तथाऽशांशेन यत्किञ्चिन्मुद्रादिकं भवतीत्याशयः । विरता योग. समग्रास्तदन्ये तादृशयोगलेशवन्त इति निष्कर्षः ॥ २ ॥
शिष्यस्य विशदबोधो यथा स्यादित्युक्तयोगानां भेदान, कार्याणि चाह
कृपा-निर्वेद-संवेग-प्रशमोत्पत्तिकारिणः । भेदाः प्रत्येकमत्रेच्छा-प्रवृत्ति-स्थिरसिद्धयः ॥ ३ ॥
कृपेत्यादि । अत्र-उक्तेषु पञ्चसु योगेषु, प्रत्येकम्-एकमेकं प्रतिलक्षीकृत्य, इच्छाप्रवृत्तिस्थिरसिद्धयः-इच्छा च प्रवृत्तिश्च स्थिरं स्थिरता च, भावप्रधानो निर्देशः । सिद्धिश्चेत्येताः, भेदाःप्रकाराः, कृपानिर्वेदसंवेगप्रशमोत्पत्तिकारिण:-कृपाऽनुकम्पा, थार्तत्राणेच्छा। निर्वेदो दुःखमूलं मत्वा संसारेऽप्रीतिः। संवेगो मोक्ष. विषये उत्कटाऽभिलाषः । प्रशमस्तृष्णाक्षयः कषायादिजयश्चेत्येषामुत्पत्तिः प्रादुर्भावस्तत्कुर्वन्ति सम्पादयन्तीति ते तादृशाः । भवन्तीति शेषः। स्थानादियोगानां प्रत्येकमिच्छाद्याख्याश्चत्वारोभेदाः। यथा-इच्छाख्यः प्रवृत्त्याख्यः स्थिरताख्यः सिद्धयाख्यश्च स्थानयोगः । एवं वर्णादिष्वप्युह्यम् । इच्छादीनां स्वरूपं चाऽनुपदमेक वक्ष्यति । तदेवं पञ्चनां चतुभिर्गुणनेन विंशतिभेदो योगः। एष्वाराषितेषु च कृपादिलाभ इति तात्पर्यम् ॥ ३ ॥