________________
मानसारे योगाऽष्टकम्
२८७
वादात्म्यम्। अहंदादिस्मरणेन तद्गुणात्मना चित्तस्य धारावाहितया प्रशान्तपरिणतिरिति यावत् । अरूपि-अरूप्यालम्बनम् , अरूपि. गुणविषयत्वादरूपीत्याशयः । स एवैषः, पर:-सर्वान्तिमः, अनालम्बन:-ईषदरूपित्वादालम्बनं यस्य स तादृशः, ऐकायाख्य इत्यर्थः । एकाग्रतायां हि न परभानमित्यनालम्बनाख्य इति बोध्यम्। योग:-मोक्षेण योजक आचारविशेषः । तदेवं स्थानादीनां पश्चानां योगानामिच्छादिभिश्चतुभिर्गुणने विंशतिः प्रकारा इति बोध्यम् ॥ ६ ॥ ___ सम्प्रति तेषां योगानां प्रकारविशेष शिष्यजिज्ञासानिवृत्तये मोक्षप्राप्तिक्रमं चाह
प्रीतिभक्तिवचोऽपङ्ग स्थानाद्यपि चतुर्विधम् । तस्मादयोगयोगाप्ते मोक्षयोगः क्रमाद् भवेत् ॥ ७॥
प्रीतिभक्तीत्यादि । स्थानादि-पूर्वोक्तस्थानप्रभृतियोगपश्चकम्, प्रीतिभक्तिवचोऽसङ्ग:-प्रीतिभक्तिवचोऽसनाख्यैश्चतुर्भिरनुष्ठानैः कृत्वाऽपि, अपिनेच्छादियोगसमुच्चयः । चतुर्विधम्-चतस्रो विधाःप्रकारा यस्य तत्तादृशम्, चतुःप्रकारमित्यर्थः । स्थानादिपञ्चकं प्रत्येकमिच्छादिमिश्चतुविधं प्रीत्यादिभिरपि चतुर्विधमित्यर्थः। तदेवं योगपञ्चकमिच्छादिचतुष्केण गुणितं विशतिविधं प्रीत्यादिचतुष्केण गुणितमशीतिबिधमिति बोध्यम् । तत्र-परमादरेण हितोदयकारिरुचिसहितं शेषत्यागेन योगानुष्ठानं प्रीतिः सम्यग्ज्ञानिनः प्रीतिसम क्रियमपि सविशेषगौरवं विशुद्धतरं. योगानुष्ठान