________________
शानसारे पूर्णाऽष्टकम्
परेति । परस्वत्वकृतोन्माथा:-परेषु स्वात्मव्यतिरिक्तेषु धनधान्यपरिजनपरिच्छदादिषु स्वत्वेनेदं ममेत्येवं स्वकीयस्वभावनया कृत उन्माथः स्वचित्तसोभो यैस्ते, तादृशाः। विषयव्यासङ्गादशान्तस्वान्ता इत्यर्थः । भूनाथा:-इतरजनाऽपेक्षया सुलभप्रचुरतरविषया नरेन्द्राः , अपीत्यर्थबलालभ्यते । तेन च तदितरजनसमुच्चयः । न्यूनतेक्षिण :-स्वस्मिन् परनृपादिभ्यो न्यूनतामपूर्णतामीक्षन्त इत्येवंशीलाः, सन्तीति शेषः। एवञ्चाऽवास्तवपूर्णता काऽपि नास्त्येव, वस्तुतस्त्वपूर्ण तैव सर्वत्र । यदुक्तम्-" उपर्युपरि पश्यन्तः सर्व एव दरिद्रति । अधोऽधः पश्यतः कस्य महिमा नोपचीयते " इति भावः । ननु पूर्णतायामपि तारतम्यसम्भवः, न च तावता साऽपूर्णतैवेति युक्तं वक्तुमिति चेन्न । तारतम्यमेव ह्यपूर्णता, न हि पूर्णतायां तारतम्यसम्भवः, तदाह-स्वेति । स्वस्वत्वसुखपूर्णस्यस्वस्मिन् सच्चिदानन्दमये आत्मनि स्वत्वेन विषयानुपेक्ष्य स्वकीयस्वभावनया यत्सुखं शाश्वताऽखण्डानन्दसमुद्भेदस्तेन पूर्णस्य, विषयेषूपेक्षया निर्विकल्पवात्स्वसाक्षात्कारात्स्वस्वभावभूताऽऽनन्दमयस्येत्यर्थः । वास्तवपूर्णतावत इति यावत् । जीवस्येत्यर्थबलाल्लभ्यते । हरे:-इन्द्रात् । इन्द्रमपेक्ष्याऽपि, न्यूनता-असमप्रता, न-नैव, अस्तीति शेषः । सच्चिदानन्दानां पूर्णानामेव सर्वात्मसु भाव इत्यात्मनां सर्वेषामेव स्वभावतः समानत्वान्न वास्तवपूर्णतायां तारतम्यम् । तस्मादवास्तवी पूर्णता वस्तुतोऽपूर्णवैव, तारतम्यसद्भावादिति नाऽवास्तवी पूर्णता काऽपीति तत्राऽज्ञानात्पूर्णता. भ्रम एव । ततस्तदुपेक्ष्य पूर्णतार्थ यतनीयमिति तात्पर्यम् ॥ ७ ॥