________________
१३
भद्रङ्करोदयाख्यव्याख्याविभूषिते
अवैतावता प्रबन्धेन मयुक्तम् , स्पष्टप्रतिपत्तये वाक्चातुरीपूर्वकं तनिष्कृष्टार्थमाह
अपूर्णः पूर्णतामेति पूर्यमाणस्तु हीयते । पूर्णानन्दस्वमावोऽयं जगदद्भुतदायकः ॥ ६ ॥
अपूर्ण इति । अपूर्णः-उपेक्षया विषयैरसमग्रः, आत्मेत्यर्थबलाल्लभ्यते । पूर्णताम्-वास्तवपूर्णताम् , एति-प्राप्नोति, उपेक्षायां सत्यां निर्विकरसभावादात्मस्वमावस्य शाश्वताऽखण्डत्वात्पूर्णानन्दमयत्वस्याऽनुभवादिति भावः । तुर्विशेषे भेदे च। तदेवाऽऽहपूर्यमाणः तृष्णासद्भावात्स्वस्वभावाऽनवभासाद्विषयैरेव स्वं समग्रं मन्यमानः, हीयते-अपचीयते, वास्तवपूर्णतायाः प्रच्यवतीति हीनो जायत इत्यर्थः । अयम्-उक्तप्रकारः, पूर्णानन्दस्वभावः-निश्चयनयेन पूर्णानन्दस्वरूपस्याऽऽत्मनः स्वभावः, जगदद्भुतदायक:जगदाश्चर्यकरः । लोके हि रिक्तः कोशादिः पूर्यमाण उपचीयते, पूर्णश्च स व्ययादिना हीयत इति प्रसिद्धम् । आत्मस्वभावश्च तद्विपरीत इति विलक्षणत्वादाश्चर्यकरः, । अत्राऽपूर्णस्य पूर्णता विरुध्यते, तथा पूर्यमाणस्य हानिरपि विरुध्यते । विरोधपरिहारस्तु प्रागुक्तार्थेन कृत एवेति विरोधाऽभासोऽलङ्कारः ॥ ६ ॥
यञ्चोक्तमवास्तवी पूर्णता, सा वस्तुतो नास्त्येवेति तत्र पूर्णताबुद्ध्या शिष्यसम्मोहो मा भूदित्याह
परस्वत्वकतोम्बाथा भूनाथा न्युनतेक्षिष। ... स्वस्वत्वसुखपूर्णस्य नमूनसान हरेरपि जा...