SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे पूर्णाऽष्टकम् पूर्यन्त इति-येन-परोपाधिना सक्चन्दनाऽङ्गनादिना धनधान्यादिना, परिग्रहेणेति यावत् । कृपणाः-तृष्णापरवशा अज्ञानिनोऽल्पसत्त्वाः प्राणिनः । पूर्यन्ते स्वं पूर्ण मन्यन्ते । अज्ञानाद्धनादिसमग्रतयैव स्वं समग्रं मन्यन्ते इति ते धनादिना पूर्यन्त इत्युच्यते । तदुपेक्षा-तस्मिन्न रागो नवा द्वेष इति माध्यस्थ्यभावनैव । रागे सति हि त्यागेऽपि न पूर्णता, तृष्णासद्धावाद्वास्तवपूर्णताया अनवसरात् । अत एव द्वेषतोऽपि त्यागेऽपि न पूर्णता, द्वेषस्य रागाऽविनाभावित्वात् । तस्मात्सुष्ठूक्तम्-" तदुपेक्षैव पूर्णते" ति । उपेक्षायां हि सत्यां रागद्वेषमूलो विषयविकल्पो विलीयते, ततश्व वास्तवपूर्णताया भानम् । नहि निर्विकल्पता विना शुद्धात्मस्वरूपभानं सम्भवतीति भावः । एतस्याः पूर्णतायाः केऽधिकारिण इत्य. पेक्षायामाह-पूर्णति । मनीषिणाम्-पण्डितानाम् , सदसद्विवेकवतामित्यर्थः। चारित्रपाल नशास्त्राऽभ्याससंस्कृतमतीनामिति यावत् । एषा-विषयेषूपेक्षैव पूर्णतेत्येवं प्रकारा, पूर्णानन्दसुधास्निग्धापूर्णः शाश्वताऽखण्डत्वात्समग्रो य आनन्दः, स एव दुर्लभत्वाद. लौकिकत्वात्तृष्णाया अभावान्मनोहत्य तृप्तिप्रदत्वाच्चाऽमृतमिव, तेन स्निग्धाऽऽर्दा श्लक्ष्णा च, परिष्कृता संस्कृता वेति यावत् । पूर्णानन्दविषयिणीति समुदितसारार्थः । दृष्टिः-अन्तश्चक्षुः, ज्ञानमित्यर्थः । अस्ति जायते वेति शेषः । ये हि सदसद्विवेकभावात्पूर्णानन्दमतयः, तेषामियं दृष्टिर्यस्खलु विषयोपेक्षव पूर्णता, नतु विषय. त्यागमात्रतः कृतकृत्यता । अविवेकिनोऽवास्तवपूर्णताऽऽदरिणां पुननैषा दृष्टिरुदबुध्यत इति भावः ॥ ५ ॥
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy