________________
१०
भद्रकरोदयाख्यव्याख्याविभूषिते
-
विकपूर्णताबोध इति यावत् । जागर्त्ति - सम्यग्ज्ञानचारित्रादिनोद्बुध्यते । तत्तदा पूर्णानन्दस्य - शाश्वताऽखण्डानन्दमयस्य जीवस्य । तादृशज्ञानोन्मेषे हि स्वरूपसाक्षात्कारात्पौद्गलिकः सर्व एव सम्बन्धो निवर्त्तते तन्मूलस्य तृष्णाया एव समूलोच्छेदादिति तदानीं जीवः पूर्णानन्दस्वरूप एव भवतीति भावः । दैन्यवृश्चिकवेदना - दैन्यं कार्पण्यम्, अभिलषिताऽप्राप्तिजनिता विह्वलता । स्वस्यापूर्णत्वज्ञानजनितं वैक्लव्यं वा । तदेव तीत्रदुःखप्रदत्वावृश्चिक इव, तत्कृता वेदना पीडा । किं स्यात्-काक्वा न स्यादेवेत्यर्थः । यया हि विद्यया विषधरसर्पकृतपीडाऽपि नश्यति, तया वृश्चिककृतपीडा नश्यतीति किं वक्तव्यम् । तथा शुद्धज्ञाने समुदश्चति वास्तवपूर्णतैव सदा भवतीति तत्र तृष्णाजनिताऽपूर्णत्वभानकृतदैन्यपीडाया नाऽवसरलेशोऽपि तृष्णाया एव विलयात् । अवास्तवपूर्णतायां सत्यामपि तृष्णाया अनिवृतेस्तदपू नूतनायास्तस्या आविर्भावे च दैन्यवेदना सदैव जायते । ज्ञानोबोधे वास्तवपूर्णतायां सत्यां तु तृष्णाया एव नाशात्तत्रेति वास्तवपूर्णतार्थमेवोद्यमिना भाव्यमिति भावः । परम्परितरूपकालङ्कारः ॥ ४ ॥
1
तदेवमुक्तप्रकारेण शिष्यस्य विशेषप्रतिपत्तये वाटस्थ्येन हेतुना फलेन च पूर्णतामुपलक्षयित्वा सम्प्रति वास्तवपूर्ण तायाः
स्वरूपलक्षणमाह -
पूर्यन्ते येन कृपणास्तदुपेक्षैव पूर्णता । पूर्णानन्दसुवास्निग्धा दृष्टिरेषा मनीषिणाम् ॥ ५