________________
जानसारे पूर्णाऽष्टकम् स्वाभाविकी पूर्णताऽऽबियते, कृत्रिमा च जन्यते । यत्र च मध्यभागादौ न तरजास्तत्राऽब्धेः स्वाभाविकी पूर्णता । सा हि नोपचीयते, न चाऽपचीयते । ततः सैव वास्तविकी । तथाऽऽत्मा स्वभावतः पूर्ण एव । विकल्पैस्तु स्वाभाविकी पूर्णताऽऽत्रियते, आभिमानिकी च जन्यते । ज्ञानादिभिर्निर्विकल्पस्वलाभे च सा स्वाभाविकी पूर्णता स्वतो मेघाऽपगमे सूर्य इब प्रकाशते । सा च नोपचीयते, न चाऽपचीयते । ततः सैव वास्तविकी । तत्सुष्ठूक्तम्-"स्तिमितोद घिसन्निभ" इति । तदेवं ताटस्थ्येन हेतुतश्च द्वे अपि पूर्णते व्याख्याते । अत्र पूर्णतां प्रस्तूय पूर्णस्य प्रतिपादनं धर्मधर्मिणोरमेदनये धर्मिप्रतिपादनं धर्मस्य प्रतिपादनमेवेति मनसा । एवञ्च न प्रस्तावमा इति बोध्यम् । एतेन विवेकेन द्वयोरवधारणाद्वास्तविकपूर्णता) सोद्यमेन भाव्यमिति सूचितम् । अत्रोपमा स्फुटैव ॥ ३ ॥
शिष्यप्रवृत्तये वास्तविकपूर्णतां स्तौतिजागति ज्ञानदृष्टिश्चेत्तृष्णाकृष्णाऽहिजाङ्गुली । पूर्णानन्दस्य ततिक स्यादैन्यवृश्चिकवेदना ? ॥ ४ ॥
जागर्तीति-चेत्-यदि, तृष्णाकृष्णाऽहिजाङ्गुली-तृष्णा विषयाऽभिलाषः, सैव दुःखप्रदत्वाद् भवभयप्रदत्वाच्छुद्धचैतन्यनाशकत्ताच कृष्णाहि:-कृष्णसर्प इति प्रसिद्धो महाविषधरः सर्पः, तद्विषये जाङ्गुली विषनाशिका गारुडी विद्या; सेव । तृष्णानाशकत्वादिति भावः । ज्ञानहष्टिः-ज्ञानाच्या दृष्टिः, "!पाधिविनिमुक्तः सच्चिदानन्दस्वरूप बास्मे" स्येवं शुद्धज्ञानमित्यर्थः । वास्त