________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते पूर्णता, तराणामिव धनादीनामपचये तत्पूर्णताया मपि विलयात्, प्रत्युत दैन्याऽवाप्तेश्च । तस्मात्ताहशी पूर्णतावास्तव्येवेति भावः । तथा-परोपाधिजन्याऽवास्तवी पूर्णता विकल्पैः स्यादब्धेरूमिभिरिव । यथाऽधेरवास्तवी पूर्णतोर्मिभिर्जायेत,तथाऽऽत्मनोऽप्यवास्तवी पूर्णता विकल्पै येतेत्येषोऽप्यर्थः । परोपाधिजन्यायां पूर्णतायां परोपाधौ स्वत्वविकल्पो द्वारभूतः, अत एव विवेकात्तादृशविकरपाऽपगमे परोपाधौ सत्यपि तादृशपूर्णताऽवसरो न राजतीति भावः । अत्राऽर्थे तादृशपूर्णताया हेतोः प्रतिपादने तात्पर्य लभ्यते, पूर्वत्राऽर्थे तु पूर्णतायामवास्तवत्वप्रतिपादने तात्पर्यमवसीयते इति विवेकः । एतेनोपाधिजनितपूर्णतायास्ताटस्थ्येन सहेतुकं स्वरूपमुपदिष्टम् । वास्तवी पूर्णता तु निर्विकल्पाऽवस्थायामेव,अतस्तल्लक्षयति-पूर्णेति । तुः पूर्वतो भेदे विशेषे च । तदेवाह-भगवान्-भगो ज्ञानवैराग्याविस्तद्वान् । यदुक्तम्-" ऐश्वर्यस्य समग्रस्य धर्मस्य तपसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणे" ति। अत एव-पूर्णानन्दः पूर्णो ज्ञानादिना निर्विकल्पदशाप्राप्तेरनाभिमानिकः, स्वस्वभावरूपत्वात्कदाचिदप्यनपचयात्कुतोऽप्यन्यूनत्वात्सर्वाधिकत्वादखण्डवाच्छाश्वतत्वाच्च पूर्ण हब पूर्णः, समग्र इति यावत् । तादृश आनन्दो यस्य स ताहश आत्मा । एतेन वास्तविक्यां पूर्णतायां भगो हेतुरित्यपि भाया सूचितमगन्तव्यम् । स्तिमितोदधिसनिमः-स्तिमितस्तरमादिरहिलस्वानिश्चलः, प्रशान्त इत्यर्थः । अथ च विगलितविकारात्मत्स्वरूपमात्रविधान्तल्वानिर्विकल्पः । जाडशो व उदधिः रमितसविस्वस्वहन। बलिई स्वभावतः पूर्व एन । तरबस्तु