________________
ज्ञानसारे पूर्णाऽष्टकम् समाना। यथा जात्यरत्नस्य विभा स्वाभाविकी, तत एव च यावद्रल. स्थायिनी, तथेतरपदार्थस्येव स्वरूपस्याऽपि प्रकाशिका, शुभात्मकत्वाच्छुभपरिणामत्वादविषमा च । तथा स्वाभाविकी पूर्णता शाश्वताऽखण्डस्वरूपा जगत्परिच्छेदप्रभुः सर्वकल्याणैकधाम च । तस्या निर्विकरमत्वात्केवलत्वात् । अतस्तदर्थमेव यतनीयमिति भावः । एवमत्र विभिन्नोपमया द्वयोः पूर्णतयोविवेको प्राहितः ।। २ ।।
तदेवमुक्तप्रकारेण विवेके ग्राहितेऽपि स्वरूपाऽज्ञानादपरितोषमिव कलयन्तं जिज्ञासया मुखमीक्षमाणं शिष्यमुपलक्ष्य करुणापरस्ते पूर्णते ताटस्थ्येन लक्षयन्नाह
अवास्तवी विकल्पैः स्यात्पूर्णताऽन्धेरिवोर्मिभिः । पूर्णानन्दस्तु भगवान् स्तिमितोदधिमनिमः ॥३॥ ___ अवास्तवीति-आत्मन इत्यर्थवलालभ्यते । विकल्पैः-मम धनं दाराः पुत्रा इत्येवमस्वेऽज्ञानाद्वासनाजनितैः स्वत्वारोपणरूपैः सङ्कल्पैः कृत्वा । अन्धेः-समुद्रस्य, उर्मिभिः-तरङ्गैः कृत्वेव । " भङ्गस्तरा ऊर्मि। "त्यमरः । पूर्णता-समग्रता, अवास्तवीकल्पिता, असत्स्वरूपेत्यर्थः । आभिमानिकीति यावत् । स्यात्जायेत । वस्तुतः पूर्णताया अभावात् , तदने स्फुटीभविष्यति । तरङ्गैर्युत्तालैर्वस्तुतस्तटाऽधःस्थितजलोऽप्युदधिरुच्छलितपयःपूरस्य तटं यावत्प्रसारात्पूर्ण इवाऽऽभाति, ततः सा पूर्णताऽब्धेरवास्तवी, पयःपूराऽपगमे ताशपूर्णताया अप्यपगमात् । तथाऽऽत्मनोऽध्यज्ञानादिसम्पर्कात्स्वरूपाऽनवमासादपूर्णस्यापि - विकस्पेशभिमानिकी