________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
पूर्णता या परोपाधेः सा याचितकमण्डनम् । या तु स्वाभाविकी सेव जात्यरत्नविभानिभा ॥२॥
पूर्णतेति-या-यादृशी, परोपाधेः-परः स्वकीयं शुद्धसत्ताज्ञानादिकं जीवस्वभूतं धर्ममपेक्ष्याऽन्यः सचन्दनाङ्गनादिरूपो य उपाधिर्मिथ्याज्ञानजनितवासनादिकृतसम्बन्धेनाऽऽरोपितस्वत्वविशिष्टः पदार्थः, अस्वोऽपि स्वत्वेन भासमानः पुद्गलादिरूपो धर्म इति यावत् । तस्मात्तमपेक्ष्येत्यर्थः । यब्लोपे पञ्चमी । पूर्णता-स्वस्थ वैकल्याऽननुभवः । स्वस्य समप्रताऽनुभव इति यावत् । सातादृशी पूर्णता, याचितकमण्डनम्-याचितमेव याचितकम् । स्वार्थे कः । कुत्सितयाचनया प्राप्तमित्यर्थः । क्षणिकाऽभिमानिकतृप्त्यर्थं हि याचनं कुत्सितमेव, तेनोत्तमलामाऽभावादिति भावः । तादृशं यन्मण्डनं भूषणं तदिवेति लुप्तोपमा । यथा हि विवाहाय. वसरे निःस्वस्य याचितमण्डनेन मण्डनवत्ताऽऽरोपिता, तत्र स्वत्वाऽभावात् । तेन हेतुना पुनः प्रतिनिवर्तनीयतयाऽल्पकालिकी। अत एव मण्डनकृतशोभाद्यपहारेण दुःखदत्वात्परिणामविषमा च । तथा पुद्गलादिसमुपभोगजन्यसुखपूर्णताऽनात्मस्वभावतयाऽज्ञानवशात्स्वीयत्वेन भासमानाऽऽरोपिता, नश्वरतयाऽल्पकालिकी, तमाशे तद्वियोगजदैन्याऽवश्यंभावाद्भवानुबन्धितया च परिणामविषमा चेतिभावः। तुर्विशेषे पूर्वस्माबेदे च । तदेवाह-या-यादृशी पूर्णता, स्वामाविकी-स्वभावप्राता, आत्ममात्रसापेक्षा शुद्धज्ञानादिजन्येत्यर्थः । सच्चिदानन्दपूर्णतेति यावत् । सा-ताहशी स्वाभाविक्येव । जात्य. रत्नविभानिमा-जास्यमुखमजाति बद्रनं तद्विमानिमा तलकाच