________________
शानसारे पूर्णाष्टकम्
-
।
बन्धितया विषमपरिणामत्वादिति ज्ञानसारोपक्रमप्रयोजनसूचा किश्चाऽखिलं जगदैन्द्रश्रीसुखमग्नेन लीलालग्नमिव सच्चिदानन्दपूर्णेन कृत्वा पूर्णमवेक्ष्यते ज्ञानविषयो भवति । द्वयोरेव जगति बाहुल्यादिति भावः । तथा सच्चिदानन्दपूर्णेनाऽत एवेन्द्र श्रीसुखमनेनाऽऽत्मीयस कलाऽलौकिकाऽतिशयादिसम्पन्निचयसमुद्भूतसुखै काऽनुभक्लीनेन, लोकस्थेनाऽपि सताऽलौकिक गुणाढ्येनेति यावत् । तादृशेन केनचिदुत्तमोत्तमेन पुरुषविशेषेण जिनेश्वरादिना । अखिलम् । जगत् - गच्छतीति तत्, भवरम्पराचङ्क्रमणक्रमपरवशो जीवसमुदायः । पूर्ण यथा स्यात्तथा, पूर्णरूपेणेत्यर्थः । लीला लग्नमिश्राSवेक्ष्यते । काचित्क्रीडास्वपि जना इतस्ततो गतागतं कुर्वन्ति, तथा च भवेषु जीव इति सुष्ठुक्तम् - " लीलालग्नमिवाऽबेक्ष्यत " इति । अज्ञानस्यैतद्विजृम्भितम् ज्ञानी तु द्रष्टृमात्रमिति तादृशस्थितये यतनीयम्, यथा तादृशगतागतश्रमविरामः स्यादिति ज्ञानमाहात्म्यं सूचितम् । अपि च-सच्चिदानन्दपूर्णेन पूर्णं सीमप्राप्तम् । सच्चिदानन्दपूर्णता हि जगन्मर्यादा, तदूर्ध्वं जगतोऽभावादिति भावः । तादृशं जयदेन्द्रश्रीसुखमग्नेव कृत्वा अखिलं यथा स्यात्तथा । साकल्येनेत्यर्थः । लीला लग्नमिवाऽधिकसुखप्राप्तये नानाविधव्यापारव्यापृतमिवाऽवेक्ष्यते । जगति हि यथा सच्चिदानन्दपूर्णाः सन्ति, तथैन्द्र श्रीसुखमग्ना अपीति चित्रं जगतो वैचित्र्यमिति भावः । अत्र यथायथमुपमोत्प्रेक्षा वाऽलङ्कारः । अनुष्टुप्छन्दः ॥ १ ॥
"
ऐन्द्र श्रीसुखपूर्णता सच्चिदानन्दपूर्णतयोः कतरा श्रेयसीति विप्रतिस्थानं शिष्यमुपलक्ष्यष्टोऽपि स्वयं विवेकं ग्राहथमाह
-