________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
तल्लाभात् । सम्भृतमित्यर्थकत्वे च कैरित्याकाङ्क्षा पूरक पदाऽभावा बाच्छिकतया पदाध्याहारापत्तौ नियतार्थप्रतीत्यनापतिरिती तो व्यघ्र इतस्तटी । तथाऽपि - " यश्च निम्बं परशुना यचैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याद्यैः सर्वस्यः कटुरेव स " इत्यादि वदौचित्यादन्वयाऽनुकूलपदाऽध्याहारे उपस्थितत्वात्स च्चिदानन्दैरित्येवाऽध्याह्रियते, न तु ज्ञानचारित्रैरिति । तस्य योग्यत्वेऽप्यनुपस्थितत्वादुपस्थित परित्यागेनाऽनुपस्थित प्रकल्पने योग्यस्याऽन्यस्याऽप्यध्याहारे कस्यचिदा हे पूर्वोक्तदोषतादवस्थ्यादिति सुधीभिश्विन्तनीयम् । अत्र चाऽन्वयवशादन्यादृशोऽप्यर्थः शक्यते समर्थयितुम् । तथा हि- सच्चिदानन्दपूर्णेनाऽऽत्मनाऽऽत्ममात्रस्य तथास्वभावत्वात्तस्याऽनन्तत्वाच्च पूर्णं तत्प्रचुरम् । यद्धि यत्र प्राचुर्येण भवति, तेन तत्पूर्णमित्येवं लोके व्यवहारादिति भावः । तादृशमखिलं जग - दैन्द्रश्रीसुखमग्नेन कर्त्रा लीलालग्नमिवाऽवेक्ष्यते । पीतिमप्रतारिनेत्रो हि सर्वं पीतमेव पश्यतीति हाऽज्ञानं वस्तुनो वैरूप्येण परिच्छेदकमिति ज्ञानार्थ शिष्याऽभिमुखीकारो ज्ञानसारे विहितः । तथा - सच्चिदानन्दपूर्णेनाऽऽस्मना कत्रैन्द्र श्रीसुखमग्नेन पूर्णमखिलं जगल्लीला लग्नमिवाऽवेक्ष्यते । ऐन्द्र श्रीसुखमग्नानां बाहुल्यात्तत एव च प्राधान्याद्व्यवहारस्य प्रधानाऽनुरोधित्वात्तेषां लीलामनतया जगदपि लीला लग्नमिवाऽवेक्ष्यते, न तु लीलालग्नमेव । निश्वयदृष्ट्या सच्चिदानन्दपूर्णेन पूर्णत्वादित्यवधेयम् । ततश्च तादृशली लालग्नतः वियोगाय सच्चिदानन्दपूर्णत्वाय च सच्चिदानन्दपूर्णेन जिनेश्वरादिना विधीयते श्रेयोमार्गोपदेशः । तादृशलील लग्नताया भवानु
४
-