________________
ज्ञानसारे पूर्णाऽष्टकम् च्छन्दयमिति लक्षणया सांसारिकपाणिवृन्दमित्यर्थः । “ विष्टपं मुवनं जगदि "त्यमरः । लीलालग्नम् लीलासु-विनोदक्रीडासु लग्नं मग्नमिव । सुखिनमिवेति यावत् । सुखिनो हि विनोदपरायणा भवन्तीति, नहि सुखी परदुःखं विजानातीति च भावः । सच्चिदा. नन्दपूर्णेन=सता स्वाभाविक्या बहिरुपाधिरहितया सत्तया निश्चयनयाऽभिमतशुद्धस्वभावाऽवस्थानरूपया, अत एव-चिता रागादि. रहितत्वाच्छु द्ध चैतन्येनाऽऽनन्देन शाश्वताऽखण्डसुखेन च पूर्णो मुणगुणिनोर्भेदनये समग्रः, तयोरभेदनये च तत्स्वरूपत्वात्पूर्ण इव पूर्णः, तेन तादृशेन । ज्ञानचारित्राऽऽराधनादिना व्यावहारिकदृष्टिमतीत्य नैश्चयिकदृष्टिमुपेयुपेत्यर्थः । पूर्णम्-सच्चिदानन्दमयम् । आत्मनः स्वभावतस्तद्रूपत्वात् । यदुक्तम्-'पूर्णमदः पूर्णमिदमिती'ति भावः । जगदित्याकाङ्क्षावलादुपस्थितत्वादावृत्त्याऽत्राऽपि सम्बध्यते । जीवमात्रस्य तत्स्वभावत्वाज्ज्ञानिनो यथास्थितवस्तुमाहित्वाच्च, अवेक्ष्यते-दृश्यते ज्ञायते च । सर्वो हि स्वमिव जगज्जानातीति भावः । तत्र व्यवहारदृष्टेधमो निश्चयदृष्टश्च नेत्यन्यदेतत् । अत्मनो हि बहिरुपाधिजनितसुखाऽनुभव आरोपितोऽस्वस्वभावत्वादनित्योऽ. स्पकालस्थायित्वाद् दुःख सम्भिन्नतया विकलो भवाऽनुबन्धितया विषमपरिणामश्चाऽज्ञानाऽविनाभावी । निरुपाधिकत्वादखण्ड आत्मस्वभावमूतत्वान्नित्यश्च सुखाऽनुभवो नर्ते ज्ञानादिति ज्ञानाऽज्ञानयोः फलतारतम्यमवधार्य स्वभावस्थेनाऽऽत्मनैव वस्तुयाथात्म्यं ज्ञायते न स्वावरणवतेति च ज्ञानाय यतनीयमिति हृदयम् । अत्र यद्यपि पूर्णमिति पदस्याऽखिलमित्यर्थ करवे आनर्थक्यम् । अखिलपदेनैव