________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
इह हि दुःखत्रयाऽभिघाताज्जिज्ञासा तदपघातके हेताविति जीवस्वभावः । स च हेतुर्नर्ते ज्ञानादन्य इति सर्वैरेव तज्ज्ञैरेकमत्या विनिर्णीतः । ज्ञानस्य च तस्य तादृशस्य विप्रुषोऽपि महाकथाः । तदरूपाऽऽयुः सत्त्व संहननवतां तस्य साकल्येनाऽधिगमोऽपारपारावारसन्तरणमिव दुःशक इत्यत्र न मतभेदगन्धोऽपि । तदेतत्सर्वं सूक्ष्मेक्षिकया प्रसमीक्ष्य परमकारुणिकेन निष्कारणं लोकहितव्यस निना मुनितमेन महामहोपाध्यायेन श्रीयशोविजयोपाध्यायेन स्वभावलाभसंस्कारकारणं ज्ञानसारमुपदिदिक्षुणेदम रूपमित्यवज्ञा कस्य चिन्मा भूदितीह जगत्यत्वमपि पूर्णमेवेति शिष्यं प्रबोधयताssदौ पूर्णाऽष्टकं प्रस्तूयते -
ऐन्द्रश्री सुखमनेन लीलालग्नमिवाऽखिलम् । सच्चिदानन्दपूर्णेन पूर्ण जगदवेक्ष्यते ॥ १ ॥
1
ऐन्द्रेति - ऐन्द्र श्रीसुखमनेन - इन्द्राः सुरासुरनरेन्द्राः, तेषा - मियं सैन्द्री, तस्याः श्रियो लक्ष्म्याः, तज्जनितत्वात्तत्सम्बन्धीत्यर्थः । तादृशं यत्सुखभिदं ममाऽनुकूलमित्यनुकूलत्वप्रकारकज्ञानविषयरूपं सुखत्वप्रकारकज्ञानजन्यं वा लोके सुखशब्दवाच्यत्वेन प्रसिद्धं शर्म, तत्र मग्नो लीनस्तेनेन्द्रवत्सम्पत्तिमत्तया सर्वथा सुखिनम्मन्येन व्यव हारनयप्रधानेन प्राणिना । ऐन्द्र श्रीसुखमग्नः स्वयमिन्द्रोऽपि । ततश्च विषयसुखं बहुमन्यमानेन तल्लीनेनेन्द्रप्रमुखप्राणिमात्रेणेत्यर्थः । " शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरिव दृश्यत " इति " शर्मसातसुखानि चे "ति चामरः । अखिलम् - निःशेषम् । न त्वेकं द्वे एव वेति भावः । जगत्-भुवनम् । मञ्चाः क्रोशन्ती 'ति वचात्स्थ्याचा