________________
श्रीशङ्केश्वरपार्श्वनाथाय नमः। श्रीनेमि-विज्ञान-कस्तूरसूरि-पन्यासयशोभद्रसद्गुरुभ्यो नमः ॥ न्यायविशारद-महामहोपाध्याय-श्रीमद्-यशोविजयोपाध्यायप्रणीत:
ज्ञानसारः। पन्यासशुभकरविजयगणिकृत-भद्रकरोदयाख्यव्याख्याविभूषितः । प्राथम्यं परमेष्ठिषु यदलौकिकशुभाऽनुभावतोऽह्नाय ।। आर्हन्त्यं मनसेमो भावाऽर्हन्तं सुमतिगम्यम् भव्याऽम्भोजप्रबोधोज्ज्वलविपुलमहोदारवाग्भानुमन्तं, रागद्वेषाऽन्धकाराऽपहतिविधुकलाकल्पसत्कल्पकान्तम् । वीरं धीरैरधीरं परमपदपरैर्येयमन्तनितान्तं, वन्देऽहं देवदेवं भवदवशमनाऽनन्तविद्वारिदं तम् ॥२॥ जाड्यं हरेरिव यतो गजवद् व्यपैति ... मुक्तिर्यतः स्वयमुपैति सतीव कान्तम् । कर्माऽर्जुनौघदहने दहनोपमानं
सानं गुरोरपि गुरुमम तत्प्रसीवेत् ॥३॥ प्रख्यातव्याख्याता कविरत्नं गुरुवरो यशोभद्रः। मयि कृपाकल्पशाखी यदुपजीव्य सत्प्रवृत्तिम ॥४॥ विनेयसूर्योदयस्य प्रार्थनया शुभङ्करमणिः सोऽहम् । भद्रङ्करोदयाख्यां शानसारव्याख्यां विदधे