________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते ~~~ · तदेवं पूर्णतां विशदं व्याख्याय तत्माप्तियोग्यः । कः काल इति समुत्सुकं शिष्यमनुगृहनाहकृष्णपक्षे परिक्षीणे शुक्ले च समुदश्चति । द्योतते सकलाऽध्यक्षा पूर्णानन्दविधोः कला ॥ ८॥ " इति महामहोपाध्याय श्रीमद्यशोविजयोपाध्यायविरचिते ज्ञानसारे पूर्णताऽष्टकं नाम प्रथममष्टकम् ॥ ८॥ .
कृष्णेति। कृष्णपक्षे-चन्द्रपक्षे-कृष्णो वर्णसाम्याल्लक्षणयाs. न्धकारः, रात्रावादौ तद्भावात्तत्पधानः पक्षोऽर्धमासः, कृष्णपक्ष इति लोके प्रसिद्धः। आत्मपक्ष-चाऽर्धपुद्गलपरावन्मितान्तरेण पुद्गल. परावाद्वाऽधिकोऽवशिष्टः संसारः, तस्मिन् कृष्णपक्षे । परिक्षीणेचन्द्रपक्षे-अतीते, आत्मपक्षे च भोगाचारित्रपालनादिना च क्षयमुपगते सति । शुक्ले-विनाऽपि प्रत्ययं पूर्वोत्तरपदयोर्लोपाच्छुक्लपक्षे, तत्र चन्द्रपक्षे-जनप्रसिद्धः शुक्लपक्षः कृष्णपक्षेतरः, यस्मिन् रात्रावादी चन्द्रोदयो भवति, तस्मिन् । आत्मपक्षे चाऽर्धपुद्गलपरा. वन्मितान्तरेण पुद्गलपराव न्यूनोऽवशिष्टो भवः, तस्मिन् । चः कृष्णपक्षक्षयसमुच्चये । समुदश्चति=सम्यगूवं गच्छति सति । चन्द्रपक्षे-शुक्लपक्षस्योर्ध्वगमनं प्रतिपद आरभ्य पूर्णिमान्तं क्रमशोऽग्रिमाऽग्रिमतिथेरागमनम् । आत्मपक्षे चोकभवस्य क्रमशो न्यूनीभावः । तस्मिन् सति । पूर्णानन्दविधोः-पूर्णः समप्रकलत्वात्सम्पूर्णमण्डलश्चाऽसावानन्दयत्याहादयति जनान् शीतलैः करैः सुभगदर्शनेन च स तादृशश्वाऽसौ विधुश्च, तस्य । “ चन्द्र इन्दुः