________________
२८०
· भद्रङ्करोदयाख्यव्याख्याविभूषिते इति महामहोपाध्याय-श्रीयशोविजयोपाध्यायविरचिते ज्ञानसारे
अनुभवाऽष्टकं नाम षड्विंशतितममष्टकम् ॥ २६ ॥
अधिगत्येत्यादि। मुनिः-जगत्तत्त्वमननशीलः सम्यक्त्वसमग्रः साधुः, शास्त्रदृशा-शास्त्रं वीतरागवचनं दर्शनादिकं च, उपलक्षणत्वात्तजन्यं ज्ञानम् , तदेव दृगिव वस्तुयाथात्म्यपरिच्छेदसाधनत्वात् दृक् तया कृत्वा, श्रुतज्ञानेनेति यावत् । अखिलम्-समग्रम् , न तु विकलम् , अल्पस्य परब्रह्मज्ञानाऽसाधनत्वादिति बोध्यम् । शब्द. ब्रह्म-शब्दो ब्रह्मपदसानिध्याद् ब्रह्मपतिपादकं वाङ्मयम् , तत्प्रति. पाद्यत्वात्तदात्मकं यद्ब्रह्म शुद्धात्मतत्वम् , शब्द विषयं ब्रह्मणस्तटस्थं रूपमित्यर्थः । अधिगत्य-ज्ञात्वा, शब्दा हि ब्रह्म ताटस्थ्येनैव प्रतिपादयन्ति, ब्रह्मस्वरूपस्य निर्विकल्पानुभवैकविषयत्वादिति बोध्यम् । अत एव, अनुभवेन-उक्तप्रकारेणाऽऽत्ममात्रविषयत्वाच्छुद्धज्ञानेन श्रुतज्ञानोत्तरभाविना, स्वसंवेद्यम्-स्वेनाऽऽत्मनैव शुद्धचिदात्मकेन संवेद्यं साक्षात्करणीयम् , यदुक्तं-प्राक्-' जानात्यात्मानमात्मने 'ति । परम्-शुद्धसच्चिदानन्दात्मकत्वात्सर्वोत्कृष्टम् , ब्रह्म-आत्मानम् , अधिगच्छति-साक्षात्करोति, श्रुतज्ञानात् परभावविरमणपूर्वकमनुभवस्ततश्चात्मलाभ इति निष्कर्षः । तस्मात्सर्वप्रयासेनाऽनुभकः साधनीय इति तात्पर्यम् ॥ ८ ॥ इति ज्ञानसारे प्रख्यातव्याख्यातृ-कविरत्न पन्यासप्रवर-श्रीयशो
भद्रविजयगणिवरशिष्यपन्यासश्रीशुभङ्करविजयगणिविर. चितायां भद्रकरोदयाख्यायां व्याख्यायामनुभवाऽष्टकं
नाम षड्विंशतितममष्टकम् ॥ २६ ॥