SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ भानसारे योगाऽष्टकम् २८१ ॥ योगाऽष्टकम् ॥ ' यथार्थवस्तुस्वरूपोलब्धि-परभावाऽरमण-तदास्वादनैकत्वमनुभव ' इत्युक्त दिशाऽनुभवस्य विरत्यविनामावित्वाद्विरतेश्च योगसाध्यत्वाद्योगाऽष्टकं विवक्षुः शिष्यप्रबोषायाऽऽदौ योगपदार्थमेवाहमोक्षेण योजनाद्योगः सर्वोऽप्याचार इष्यते । विशिष्य स्थानवर्णाऽर्थाऽऽलम्बनकाय्यगोचरः ॥१॥ मोक्षेणेत्यादि । मोक्षेण-सर्वकर्मक्षयलक्षणेन शाश्वताऽखण्डाऽऽनन्दात्मकेन चतुर्थपुरुषार्थेन सह, योजना-प्रापणात् , मेलनाद्धेतोरित्यर्थः । सर्व:-निखिलः, अपि-रेवार्थः । तेन कतिपयाऽऽचारव्यवच्छेदः। आचार:-चरणसप्ततिकरणसप्ततिरूपो मोक्षप्राप्त्यनुकूलः क्रियासमुदायः । आचारपदस्य तादृशक्रियासमुदाय एव रूढत्वान्मोक्षप्रस्तावाच्चेति बोध्यम् । योग:-योगपदवाच्या, इष्यते-इष्टः, योगिभिरिति शेषः । यः कोऽपि वाऽऽचारो भवतु, स मोक्षेण योजयति चेद योगशब्दवाच्यः । योज्यते मोक्षण सहाऽनेन कृत्वेतिकरणसाधनो योगशब्द इति बोध्यम् । योगार्थाअनुसारेणैतदेवमुक्तम् । सम्प्रति रूढिमनुसृत्याऽऽह-विशिष्येत्यादि । विशिष्य-तादृशाऽऽजारेषु मनःशुद्धया दिविधिप्रगुणत्वाप्राधान्याच्छङ्गमाहिकया निर्धार्य, स्थानवालम्बनकाम्यगोचरः-स्थानमावश्यक क्रियासु शास्त्रोक्तासनमुद्रादिपरिग्रहः, वर्णाः पाठकगुणषटकविशदीकृतसूत्रादिवर्णपारायणम् , अर्थ उक्तप्रकारवर्णार्थभावनम् , आलम्बनं ध्येयं जिनबिम्बादिकं तत्र दृङ्मनः
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy