________________
शानसारे अनुभवाऽष्टकम्
२७९
___ न सुषुप्तिरित्यादि । अमोहत्वात-न मोहो मिथ्यात्वाऽज्ञानात्मको यस्य स तादृशोऽमोहस्तस्य भावस्तत्त्वं तस्मात् , मोहरहितखादित्यर्थः । अनुभव:-उक्तप्रकारा शुद्धचिदात्मिकाऽऽत्मदशा, सुषुप्ति:-सुषुप्तिवदेव दृढगाढमोहप्रावल्याद् यथार्थवस्तूपलब्ध्यमावात्सुषुप्त्याख्या शास्त्रोक्ता प्रथमात्मदशा, न-नैव, मोहरहितस्य मोहात्मकदशायां विरोधानाऽन्तर्भाव इत्याशयः । कल्पना. शिल्पविश्रान्तेः-कल्पनाया विकल्पस्येष्टाऽनिष्टादिपदार्थचिन्तनस्य यच्छिल्पमुत्तरोत्तररचनोत्कर्षस्तस्य विश्रान्ते विरामाखेतोः, निर्विकल्पात्मकत्वाद्धेतोरित्यर्थः । स्वापजागरौ-स्वापदशावजाग्रदशा. बच्च विविधविकल्पशिल्पव्यापृतत्वात्स्वापाख्या जागराख्या चाऽऽत्म. दशा, नाऽपि च-नैव, अनुभव इति विशेष्यं सम्बध्यते । निर्वि. कल्पकस्य न सविकल्पेऽन्तर्भावो वैलक्षण्यादितिभावः । तस्मात्परिशेषात्-तुर्या-चतुर्थी, उत्तराख्योजागरदशैव, एवकारेण दशा. न्तरव्यवच्छेदः । दशा-आत्मावस्था, बोध्येतिशेषः । यद्यपि चतुर्थी दशा केवलिन एव शास्त्रोक्ता । अनुभवदशा च केवला. त्पूर्वभाविनीति तस्यास्तुर्यदशात्वमसमञ्जसम् । तथापि दशात्रयाऽनन्तर्भावाच्छुद्धचिदात्मकत्वात्केवलदशायाः साक्षात्साधनभावाच्च कारणे कार्योपचाराच्च तुर्यत्वमनुभवदशाया इति बोध्यम् ॥ ७ ॥
शिष्याणां प्रबोधाय प्रवृत्तये च साधनप्रकारमुपलक्षयन्ननुभवफलं च विवृण्वन्नुपसंहरति
अधिगत्याऽखिलं शब्दब्रह्म शास्त्रदृशा मुनिः । स्वसंवेद्यं परं ब्रह्माऽनुभवेनाधिगच्छति ॥ ८ ॥