________________
२७८
भद्रङ्करोदयाख्यव्याख्याविभूषि
पश्यत्वित्यादि । लिपिमयी-लिपिप्रचुग, लिपिप्रधानेत्यर्थः । अन्थप्रथिताऽक्षररटनजन्यज्ञानात्मिकेति यावत् । शास्त्राक्षरार्थज्ञानमात्रात्मिकेति हृदयम् । वाङ्मयी-वाक्प्रधाना, हेतुवादात्मिकेति यावत् । मनोमयी-मनः कल्पनात्मिका मनोवृत्तिस्तन्मयी तत्त. धाना, कल्पनात्मिकेति यावत्। वेति समुच्चये । दृष्टि:-दृक्, ज्ञानमित्यर्थः । परभावोल्लेखित्वाद् द्वन्द्वात्मकं सविकल्पकं ज्ञानमिति समुदायपरमार्थः । निर्द्वन्द्वम्-द्वन्द्वं रागद्वेषादि विषयविकल्पश्च ततो निर्गतं निर्द्वन्द्वं रागद्वेषादिरहितम् । निर्विकल्पकमित्यर्थः । शुद्धसच्चिदानन्दात्मकमिति यावत् । एतच्चाऽदर्शने हेतुरिति बोध्यम् । ब्रह्म-निरञ्जनमात्मानम् , निर्द्वन्द्वानुभवम्-द्वन्द्वाद्विकल्पाचिर्गतो निर्विकल्पकः, परभावपरित्यागेन पारमार्थिकतत्त्व साक्षात्कारात्मक इत्यर्थः । स तादृशो योऽनुभव उक्तप्रकारस्तम्, विना-ऋते, कथम्-केन प्रकारान्तरेण, पश्यतु-विषयीकरोतु, काका न केनाऽपि प्रकारेण विषयीकर्तुं शक्नोतीत्यर्थः । निर्द्वन्द्वस्य निर्द्वन्द्वेनैव साम्याद ग्रहणयोग्यता न तु द्वन्द्वात्मकेन, द्वन्द्वात्मकनिर्द्वन्द्वयो विशेषणमुखेन विरोधादिति भावः । एवं च शास्त्रादिकं परम्परयैव ब्रह्मज्ञान उपयुज्यते, साक्षात्साधनं त्वनुभव एवेति सहेतुकं समर्थितम् ॥ ६॥
शास्त्रोक्तदशाचतुष्टयेषु अनुभवस्य क निवेश इति शिष्य जिज्ञासानिवृत्तय आह
न सुषुप्तिरमोहत्वान्नाऽपि च स्वप्नजागरौ । कल्पनाशिल्पविश्रान्तेस्तुर्यवाऽनुभवो दशा ॥ ७॥