________________
शानसारे अनुभवाऽष्टकम्
२७७
त्मिका प्रतिभा, सैव शास्त्रोक्तचालनाप्रत्यवस्थानात्मकविलोडनसाधनवाद: खजाका, शास्त्रक्षीरानगाहिनी-शास्त्रमेव तत्त्वरहस्यात्मकोत्कृष्टमधुरादिरसात्मकत्वात्क्षीरान्नं पायसं तद्गाहते विलोडयतीत्येवंशीला, शास्त्रशीरान चालनाप्रत्यवस्थानक्षमेयर्थः । यथा शास्त्रक्षीरानं स्वधीतं सुपक्वं च स्यादिति भावः। न-नास्ति । काक्वाऽपि तु सर्वेषामेवाऽस्ति । स्वस्वप्रतिभानुसारं सर्वोऽपि विवादपण्डित इति यावत्। ननु नैतत्किञ्चिन्नवीनमुच्यत इति चेत्तत्राहविरला इत्यादि । अनुभव जिह्वया-अनुभव उक्तप्रकारः, स एव शास्त्रोक्तपदार्थरहस्यात्मकरसास्वादाऽसाधारणसाधनत्वाजिहा, तया कृत्वा, तद्रसास्वादविदा-तस्य शास्त्रक्षीरान्नस्य यो रसो रहस्यास्मकमाधुर्यादिरूपः सारस्तस्य य आस्वादोऽनुभवस्तद्विन्दन्ति लभन्त इति ते तादृशाः, शास्त्रक्षीरान्नरसानुभवसौभाग्यसम्पन्ना इत्यर्थः । विरला:-तनवः, अत्यल्पा इत्यर्थः । “विरलं तनु पेलवमि"ति हैमः। न हि यो यः क्षीरानं दा विलोडयति स सर्वोऽपि क्षीरान्नरसास्वादविदपि, रसास्वादने हि न दा अपि तु तादृशपटुजिह्वाया एव साधनत्वात् । तथा शास्रोतेषु कल्पनापाटवमात्रेण न शास्त्ररहस्यसाक्षात्कारोऽपि त्वनुभवेनैव । तादृशानुभववन्तश्च न मर्वे इति सुष्ठूक्तम्-" शास्त्रेणाऽप्यनुभवं विना न परं ब्रह्म गम्यमि"ति भावः । परम्परितरूपकालङ्कारः ॥ ५॥
शिष्यप्रबोधाय केवलस्य शास्त्रादे ब्रह्मज्ञानाऽसाधनत्वेहेतुमाहपश्यतु ब्रह्म निर्द्वन्द्व निर्द्वन्द्वानुभवं विना । कथं लिपिमयी दृष्टि वाङ्मयी-वा मनोमयी ॥६॥