SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २७६ भद्रङ्करोदयाख्यव्याख्याविभूषिते झायेरन्नित्यादि। यदि-चेत् , हेतुवादेन-हेतूनां वस्तुस्वरूपनिर्धारकयुक्तीनामनुमानादीनां यो वादो वदनम्, हेतुभिः प्रतिपादनं वा, तेन, युक्तिवाचेति हृदयम् । अनुभवं विना केवलेन हेतुवादेनेत्याल्लभ्यते । अतीन्द्रियाः-इन्द्रियाऽगौचरा धर्माधर्माकाशजीवपरमाण्वादयः, पदार्थाः-भावाः, ज्ञायेरन्-परमार्थिकस्वरूपेण लोकै निविषयीक्रियेरन् , तदा, तेषु-अतीन्द्रियेषु पदार्थेषु विषये, प्राज्ञैः-हेतुवादविशेषज्ञैर्जनैः, एतावता-अनादिकालादारभ्याऽद्यपर्यन्तेनेयत्परिमाणेनाऽतिमहता, कालेन-समयेन कृत्वा, एतेन निश्चयाऽभावहेतुत्वेन सम्भावितं कालाऽल्पत्वं निराकृतम् । निश्चयः-इदमित्थमेवेत्येवं स्वरूपनिर्धारणम् , कुत:सम्पादितः, स्याव-भवेत् । न चाद्यापि तन्निश्चयः । कथमन्यथा विदुषां तद्विषये विवादो न शाम्यत्यद्यापि । तस्मात्तादृशनिश्चयाऽभाव एवातीन्द्रियाणां नाऽनुभवं विना युक्तिमात्रेण पारमार्थिकतत्त्वबोध इति ज्ञापयति । एवञ्चाऽत्मा सुतरां नानुभवं विना ज्ञेय इत्यनुभव एव भववारिधेः पारं प्रापयतीति युक्तिशतेनाऽपि पर ब्रह्म न गम्यमिति च समर्थितम् ॥ ४ ॥ स्यादेतत् । शास्त्रेणैवाऽतीन्द्रियपदार्थतत्त्वनिर्णयः सुकरः । यदुक्तं-"परोक्षमाप्तागमात्सिद्धमि"ति शिष्यशङ्कां निराकुर्वन्नाह केषां न कल्पनादर्वी शास्त्रक्षीरानगाहिनी । विरलास्तद्रसास्वादविदोऽनुभवजिह्वया । ॥ ५॥ केषामित्यादि । केषाम्-किप्रकाराणां शास्त्राध्ययनशीलानां बनानाम्, कल्पनादी-करुपना नवनवपूर्वपक्षोत्तरपक्षाफुरणा
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy