________________
ज्ञानसारे अनुभवाऽष्टकम्
२७
वादृशम्, विना-ऋते, शास्त्रयुक्ति शतेन - शास्राणां तत्र प्रतिपादितत्वात्तत्सम्बन्धि यद् युक्तीनात्मस्त्ररूपप्रतिपादक प्रमाणप्रकाराणां शतं शतसङ्ख्या, तेनाऽपि केवलेनेत्यर्थं बलाद् गम्यते । शात्रोक्ताऽसङ्ख्यातयुक्तिभिरपीत्यर्थः । अपिनाऽरपानां सख्यातानां युक्तीनां तु कथैव केति सूच्यते । अथ च शास्त्राणां युक्तीनां च यच्छतं तेनाऽपि, अथवा शास्त्रेण युक्ति तेनाऽपि चेत्यर्थः, न-नैव, गम्यम्- ज्ञेयम् । अतीन्द्रिया वागतीता इति यावत्, किन्तु शास्त्रप्रदर्शितदिशा युक्तया मननपूर्वकाऽनुभवत एव तद्गम्यम् । नन्वनुभवपक्षपातिनां भवतेत्थमुच्यत इति शिष्योपालम्भं तन्मौनादिनोनीयाssह-यत्- तदेतत्, बुधाः - शास्त्र रहस्यज्ञा आत्मतत्त्वशाश्व, जगुः - उच्च घोषयामासुः । यदुक्तम्- “ यतो वाचो निवर्त्तते अप्राप्य मनसा सहे "ति । " श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्वोपपत्तिभिः । श्रुत्वा च सततं ध्येय एते दर्शन हेतव " इति च । एवं च वाक् तटस्थं स्वरूपं लक्षयति, तत्परिपाठ्या चाऽनुमवात्पारमार्थिक वस्तुतत्त्वसाक्षात्कार इति निष्कर्ष: । तस्मान्न शास्त्रमात्रेण युक्तिमात्रेण वा कृतकृत्यता, किन्त्वनुभवप्रधानेन तेनेति तात्पर्यम् ॥ ३ ॥
ननु परेऽतीन्द्रियाः पदार्था आकाशादयो युक्तिभिः सुज्ञेयाश्चेदात्माऽपीति शिष्यत निराकरिष्णुरतीन्द्रिय सामान्यस्यैव युक्तषा न तवनिर्णय इत्याह
ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतात्रता प्राज्ञैः कृतः स्यातेषु निषयः ॥ 8 ॥