________________
२७४
भद्रङ्करोदयाख्यव्याख्याविभूषिते
चारित्रयोरैक्यभावनात्मकमुक्तप्रकारं प्रातिभज्ञानमेव, भववारिधेःभवःसंसार एव भवोद्वेगाऽष्टकोक्तप्रकारेण वारिधिः समुद्रस्ततः, पारम्-परं तीरम् , अन्तमित्यर्थः । प्रापयति-नयति, मोक्ष प्रापयतीत्यर्थः । शास्त्राद्धेयोपादेयज्ञानपूर्वकहेयहानोपादेयोपादानात्मकज्ञानचारित्रलामे आत्मनो ज्ञेयहेय विकल्पपरित्यागेन ज्ञानचारित्रैकत्वभावनात्मकपरिणामरूपोऽनुभवः स्वाऽव्यवहितोत्तरवर्तिकेवलज्ञानं साधयित्वैकान्तेन मोक्षसाधकः साक्षादेवेति स मोक्ष प्रापयति । एवं च न शास्त्रमात्रेणेष्टसिद्धिः, मोक्षपदानं प्रति तस्यो. दासीनत्वान्मोक्षमार्गप्रदर्शन एव तद्व्यापारात् । अनुभवश्च नाऽऽनु. षङ्गिकोऽपि तु ज्ञान चारित्रजन्यः साक्षान्मोक्षहेतुः । तेन विना मोक्षाऽसम्भवादिति स प्रयस्योपार्जनीय इति हृदयम् ॥ २ ॥
नन्वात्मस्वरूपसाक्षात्कारान्मोक्षः। आत्मस्वरूपं च शास्त्रे प्रतिपादितमिति तत एव ज्ञेयमिति शास्त्राणामात्मस्वरूपज्ञापनद्वारा मोक्षपर्यन्तं व्यापारो न तु दिक्प्रदर्शन एवेति शिष्यशङ्कां समाधित्सुराह
अतीन्द्रियं परं ब्रह्म विशुद्धानुभवं विना । शास्त्रयुक्तिशतेनापि न गम्यं यदुधा जगुः ॥ २॥
अतीन्द्रियमित्यादि । परम्-सर्वोपाधिरहितत्वात्सर्वोत्कृष्टम् , ब्रह्म-आत्मा, निरञ्जनः शुद्धचैतन्यस्वभाव आत्मेत्यर्थः । अती. न्द्रियम्-इन्द्रियाण्यतिक्रान्तम् , इन्द्रियातीतमित्यर्थः । अमूर्त- . स्वादिति बोध्यम् । अतएव, विशुद्धाऽनुभवम्-विशुद्धोविकल्परहित आत्ममात्रविषयो योऽनुभव उक्तप्रकार प्रातिभं ज्ञानम्, तं