________________
मानसारे अनुभवाऽष्टकम्
२७३
नन्वस्तु तादृशोऽनुभवः । किन्तु न तेन प्रयोजनम्, तस्याअनुषङ्गिकत्वात् , शास्त्रैणैवेष्टसिद्धेरिति शिष्यशतां समाधित्सुराह
व्यापारः सर्वशास्त्राणां दिक्प्रदर्शन एव हि । पारं तु प्रापयत्येकोऽनुभवो भववारिधेः ॥ २ ॥
व्यापार इत्यादि। हि-वस्तुतः, सर्वशास्त्राणाम्-सर्वाणि च तानि शास्त्राणि जिनोक्तागमास्तेषाम् । यदुक्तमिहैव प्राक्" शासनात्राणशक्तेश्च बुधैः शास्त्रं निरुच्यते । वीतरागस्य वचनं तत्तु नाऽन्यस्य कस्यचिदि"ति । वेदादयस्तु शास्त्राभासा मोक्षानु. पदेशादिति बोध्यम् । दिक्प्रदर्शने-दिशो मोक्षप्राप्त्यनुकूलायादिशाया, मोक्षमार्गस्येत्यर्थः । तस्याः प्रदर्शने ज्ञापन एव, न तु मोक्षस्य प्रापणेऽपीत्येवकारेण लभ्यते । व्यापार:-प्रवृत्तिः, शक्तियोग इति यावत् । शास्त्राणि हि मोक्षमनया दिशा गच्छेदित्ये. तावन्मात्रोपदेशेनैव विश्राम्यन्ति । न च तावता मोक्षप्राप्तिः। किन्तु शास्त्रप्रदर्शितमार्गानुसरणेनेति मार्गप्रदर्शकानि शास्त्राणि । यदुक्तम्-" मार्गज्ञः सह याति किभि" ति । अत एव चोक्तं प्राक्शास्त्रोक्ताचारकर्ता च शास्त्रज्ञः शास्त्रदेशकः। शास्त्रैकहङ्महायोगी प्राप्नोति परमं पदमि"ति । एवं च परम्परयैव शास्त्राणां मोक्षहेतुतेति वोध्यम् । ननु तर्हि कः साक्षान्मोक्षं प्रापयतीति शिष्यविज्ञासायामाह-पारमिति | तु विशेषे । शास्त्रेभ्योऽनुभवस्य विशेष इत्यर्थः। यतः, एक:-केवलः, अनुभवः-सम्यग्ज्ञान