________________
२७२
भद्रकरोदयाख्यव्याख्याविभूषिते
केवलज्ञानस्याऽभ्यर्हितत्वात्क्रममविगणय्य प्राक्प्रयोगो बोध्यः । मध्ये इति शेषः । तथा च-श्रुतज्ञानानन्तरं केवलादव्यवहितपूर्वकाले इत्यर्थः । अन्यथा पृथक्पदेन योगे पञ्चमीविधानात्पष्ठी न सङ्गच्छेतेति ध्येयम् । पृथगिति सम्बध्यते । सामीप्यात्केवलश्रुताभ्यामित्यर्थवलाल्लभ्यते । अनुभव:-प्रातिभज्ञानाऽपरनामाऽऽत्म. परिणामविशेषः श्रुतज्ञाननिष्परिग्रहताजन्यः, कंवलाऽऽरुणो. दय:-केवलं केवलज्ञानमेव जगत्पदार्थसार्थप्रकाशकत्वसाधादर्कः सूर्यस्तस्याऽवश्यन्तयातदुदयप्राग्भावित्वात्तत्सम्बन्धी योऽरुणस्य तदाख्यस्य सूर्यसारथेरुदय ऊर्वमागमनन् , तद्रूप इत्यर्थः । दृष्टः-साक्षात्कृतः। एवञ्चाऽनुभवविषये न विप्रतिपत्त्यबसरः । दर्शनान्तरेषु यद्यस्य नोल्लेखः सा तस्य न्यूनतेति हृदयम् । यथा सूर्योदयात् प्रागरुणोदयो नियमेन जायते, अत एव न विनाऽरु. णोदयं सूर्योदयः। तथा केवलोदयात्प्रानियमेनाऽनुभवोदय इति न विनाऽनुभवं केवलम् । न चैतत्स्वमनीषिका, अपि तु बुधैस्तथादृष्टत्वाद् वस्तुस्थितिरेषा । तथा चोक्तम्-" मतिश्रुतयोरुत्तरभावी केवलादव्यवहितपूर्वभावी प्रकाशोऽनुभव" इति । स चैष तादृश. ज्ञाननिष्परिग्रहतयो भावनामात्रात्मकः। विशुद्धतादृशज्ञानत्यागमयतयाऽऽत्मस्वरूपभावनमिति यावत् । यदुक्तम्-" यथार्थवस्तु. स्वरूपोपलब्धिपरभावाऽरमणतदास्वादनैकत्वमनुभव "इति । मति. श्रुतयोरुत्तरभावीति सामान्योक्त्या कस्यचिच्छृतानन्तरमनुभवात्प्रागवधिमनःपर्ययोदयेऽपि न क्षतिः । श्रुतोत्तरत्वस्याऽवाधादित्यबधेयम् । अत्रोपमापरम्परितरूपकयोः संसृष्टिः ॥ १ ॥