________________
ज्ञानसारे अनुभवाऽष्टकम्
पकरण भिन्नसङ्ग्रहोsपि न परिग्रहः, मूर्च्छासत्त्वे तु धर्मोपकरणमपि परिग्रह एव । यदुक्तम् - " परिग्रहग्रहाऽऽवेशादि त्यादिनाऽत्रैव प्राक् । एवञ्च ज्ञानिनो मूर्च्छाभावाद्र जोहरणादिचतुर्दश वर्मोपकरणभिन्नवस्तुना न प्रयोजनमिति तन्नेष्यते । धर्मोपकरणग्रहोsपि धर्मरक्षार्थमेव न तु मूर्च्छयेति न निष्परिग्रहवाहानिः । प्रत्युत धर्मरक्षणेत ज्ञानकीनताप्रयोजकतया तन्निष्परिग्रहता स्थैर्य साधनमेवेति हृदयम् ॥ ८ ।।
इति ज्ञानसारे प्रख्यातव्याख्यातृ - कविरत्नपन्यास प्रवर श्री यशोभद्रविजयगणिवर शिष्यपन्यास - श्रीशुभङ्कर विजयगणिविरचितायां भद्रकरोदयाख्यायां व्याख्यायां परिग्रहाऽष्टकं नाम पञ्चविंशतितमाऽष्टकम् ॥ २५ ॥
२७१
॥ अनुभवाऽष्टकम् ॥
शास्त्राद् वस्तुयाथात्म्याऽवबोधात्मकं सम्यग्ज्ञानं निष्परिग्रहतया च चारित्रमिति ज्ञानचारित्राभ्यामनुभवद्वारा मोक्ष: साध्य इत्यनुभवाऽष्टकं वित्रक्षुरादौ शिष्यस्य विप्रतिपत्तिनिरासाय तत्र
प्रमाणमाह
सन्ध्येव दिनरात्रिभ्यां केवलश्रुतयोः पृथक् । बुधैरनुभवो दृष्टः केवलार्काऽरुणोदयः ॥ १ ॥
सन्ध्येत्रेत्यादि । दिनरात्रिभ्याम् दिनश्च रात्रिश्च ते, ताभ्याम्, पृथक् - भिन्ना, विलक्षणेत्यर्थः । सन्ध्या - दिनराज्योरन्तरालदर्त्ती प्रसिद्धस्तयोः सन्धिकाल इव, बुधैः- ज्ञानिभिरध्यात्ममर्मज्ञैः केवलश्रुतयोः - केवलं तदाख्यं ज्ञानं च श्रुतं तदाख्यं ज्ञानं च तयोः ।