________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
गान्यपि वमेष्टानि | यदुक्तम् - " नाऽत्यश्ततस्तुयोगोऽस्ति न चैकान्तमनश्नतः । न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ! ॥ १ ॥ युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहे "ति । तस्माज्ज्ञानिनो धर्मोरकरणानि न परिग्रहः, धर्मरक्षार्थमेव तद्रहणात् । एतेन धर्मोपकरणानामपि त्यागं परिग्रहभिया समर्थयन्तो दिग्वाससो दत्तोत्तरा इत्यवधेयम् ॥ ७ ॥
२७०
ननु तर्हि धर्मोपकरणानामपरिग्रहत्व धर्मस्योपकुर्वन्त्यन्यान्यपि वस्तूनि किं नेष्यन्त इति शिष्यशङ्कां समादधदुपसंहरति
मूर्च्छाच्छन्नधियां सर्व जगदेव परिग्रहः । मूर्च्छया रहितानां तु जगदेवाऽपरिग्रहः || ८ || इति महामहोपाध्याय श्रीयशोविजयोपाध्याय विरचिते ज्ञानसारे परिमाष्टकं नाम पञ्चविंशतितमाष्टकम् ॥ २५ ॥
मूर्च्छत्यादि । मूर्च्छाच्छन्नधियाम् - मूर्च्छया मोहेन च्छन्नाssवृता धीर्येषां तेषां रागादिकलुषितमतीनाम्, सर्वम् - धर्मोपकरणादिकं वाऽन्यद्वा सकलमेव न तु धर्मोपकरण भिन्नमेव, जगत्लक्षणया जगत्स्थितं वस्तु, एवकारोऽवधारणे । वस्तुमात्रमित्यर्थः । परिग्रहः- रागादिविषयो रागादिप्रयोजकश्चेति स्वसङ्ग्रहः । तुर्भेदे | तमेवाह - मूर्च्छया - मोहेन, रहितानाम् - शून्यानाम्, गतरागद्वेषमोहादीनामित्यर्थः । जगत् सर्वम् । एवकारोऽवधारणे । सर्वमेव न तु धर्मोपकरणमेव, अपरिग्रहः - अकाम्यः कामनाऽनुद्भावकश्चेति त्यागो वाऽसङ्ग्रहो वा । परिग्रहे हि मूर्च्छा मूलम् । तदभावे धर्मो